आरम्भः (Beginning)

अस्माकं संस्कृतवर्गे नरेन्द्राख्यः एकः छात्रः अस्ति। द्विमासपूर्वं वर्गः आरब्धः। वर्गः प्रतिसप्ताहे मङ्गलवासरे एकहोरावधये एकवारं मिलति। गत मङ्गलवासरे अहं व्यैक्षे (I observed) नरेन्द्रवर्यः अनुभवति अहम् इदं न बोधामि इति। सः विभक्तिपाठे किञ्चित् भ्रमितः अभवत्। सः आगमिमङ्गलवासरे भारतं गमिष्यति। मया चिन्तितं यदि सः किमपि न बोधामि इति विचिन्त्य भारतं गमिष्यति तर्हि सः प्रत्यागमनात् परं वर्गे न आगमिष्यति। तस्मात् तस्य गमनस्य पूर्वम् एव मया तेन सह चर्चितव्यं प्रारम्भे भाषाशिक्षणम् असुकरं प्रतिभाति किन्तु गच्छति काले सुकरं भविष्यति इति।
अद्य रात्रौ सः मन्दिरे आसीत्। अहं तम् आहूय चर्चायै बहिः अनयम्। अहम् अकथयं निरुत्साहितः मा भवतु इति। सः उदतरत् अहम् अपि इदम् एव चिन्तयामि इति। सः अकथयत् ह्यः मम मनसि बाल्यकाले श्रुता एका कथा स्फुरिता। कथा अस्ति –
एकेन व्याधेन एकः शुकः निगृहीतः। तेन व्याधेन सः शुकः एकस्मिन् कक्षे पिहितः। कक्षः कर्पासेन पूरितः आसीत् च। कक्षे शुकाय उड्डयनाय अत्यल्पः अवकाशः आसीत्। सः शुकः व्याधं प्रार्थितवान् मां मुञ्चतु इति। व्याधः उदतरत् यदा त्वम् अस्य सर्वस्य कर्पासस्य पिञ्जनम् करिष्यसि तदा अहं त्वां मोचयिष्यामि इति। सः शुकः दुःखितः अभवत् तेन हताशेन शुकेन व्याधः पौनःपुन्येन प्रार्थितः किन्तु व्याधेन स्वनिर्णयं न ऊहितम्। अन्ते शुकस्य मनसि एकः विचारः आगच्छत् यदि अहम् आरम्भं न करिष्यामि तर्हि कथं कर्पासस्य पिञ्जनं पूर्णं करिष्यामि तस्मात् मया अचिरं कार्यम् आरब्धव्यम् इति।
नरेन्द्रवर्यः अकथयत् न जानामि कथं बाल्यकाले श्रुता इयं कथा इदानीं मम मनसि स्फुरिता किन्तु मन्ये संस्कृतशिक्षणाय प्रेरणां दातुं स्फुरिता इति। विचित्रः संयोगः अस्ति मम मनसि नरेन्द्रवर्यस्य मनसि च मिथः एकः एव विचारः आगच्छत् इति।

२०१६-१०-०८ शनिवासरः (2016-10-08 Saturday)