वार्षिकजनसभा (Annual General Meeting)

हिन्दूमन्दिरस्य वार्षिकजनसभा रविवासरे २५सितम्बर२०१६ तिथौ प्रातः एकादशवादने भविता। यदि सार्धैकादशवादनात् योग्यसङ्ख्यकाः सदस्याः सभायां न आगमिष्यन्ति तर्हि सभा द्वादशवादने पुनः आहूता भविता। तदा सभायां येऽपि जनाः भवितारः ते योग्यसङ्ख्यकाः गणयितारः।
कृपया वार्षिकजनसभायाम् आगच्छन्तु। भवताम् उपस्थितिः मन्दिराय हिन्दूसमाजाय च कार्यं कुर्वद्भ्यः स्वयंसेवकेभ्यः प्रोत्साहनं भविता।

२०१६-०९-०७ बुधवासरः (2016-09-07 Wednesday)