गोपुत्राः (Young Bulls)

मम मित्रं राधाकृष्णशर्मा महोदयः परह्यः एकां महतीं समस्याम् अवर्णयत्। सः गोरक्षाहेतवे गोशालां पालयति। तस्यां गोशालायां प्रायः पञ्चाशत्शताः (50-to-100) गावः सन्ति। गोशालायाः पालने नैकाः समस्याः आगच्छन्ति। प्रथमं तु सः न जानाति कुतः कदा च रक्षणार्थं गावः आगच्छन्ति। गोरक्षकाः यदा खट्टिकतः गाः विमुञ्चन्ति तदा तान् गाः ते अस्यां गोशालायां आनयन्ति। तस्मात् कदापि कति गावः भविष्यन्ति इति ते न जानन्ति।
तत् परं विधर्मिणः गोशालातः गाः चोरयन्ति। तासां गवां विमोचनं इति तत् अपि महती समस्या अस्ति।
इमाः समस्याः तु गोशालायाः पालने सन्ति किन्तु तस्याम् उपरि गोरक्षणे एका अन्या महत्तमा समस्या अस्ति।
ये गोपुत्राः जायन्ते तेषां किं करणीयम्? धेनवः तु अनेकानि कार्याणि कुर्वन्ति तस्मात् जनाः धेनूः पालयन्ति किन्तु गोपुत्रेभ्यः इदानीं किमपि कार्यं नास्ति। कृषिक्षेत्रे कर्षित्राणाम् उपयोगः भवति। कृषिकार्ये कोऽपि वृषभं न उपयुनक्ति तस्मात् यावत् गोपुत्रः जायते तावत् एव ते कमपि गोपुत्रं ददति विक्रीणन्ति वा तस्मात् गोपुत्रस्य रक्षणं महत्तमा समस्या अस्ति।
अपि अस्ति अस्याः समस्यायाः किमपि समाधानम्? यावत् मया तत् श्रुतं तावत् मम मनः पीडयति। किं करणीयम्। कृपया समाधानं सूचयतु।

२०१६-०७-१७ रविवासरः (2016-07-17 Sunday)