प्रत्यागताः (They Returned)

मे प्रतिभाति मम अमात्याः चिरकालम् उषित्वा अस्माकं गृहात् अद्य प्रत्यागताः। गत त्रिमासावधौ अहं मम भार्यया सह 3rd Rock from the Sun इति चलचित्रधारावाहिकं पश्यामि स्म। सः धारावाहिकः पञ्चदशपूर्वं समाप्तः किन्तु आवां नेट्फ्लिक्स-माध्यमेन इदानीम् एव अपश्याव। प्रतिदिनम् आवाम् एकं प्रकरणं अपश्याव। अद्य तस्य अन्तिमं प्रकरणम् आसीत्।
अस्मिन् धारावाहिके चत्वारः जनाः अन्यात् ग्रहात् पृथिव्यां आगच्छन्ति। तान् पृथिव्यां निवसतः जनाः विचित्राः सन्ति इति तेभ्यः प्रतिभाति। अन्तिमे प्रकरणे ते स्वग्रहं प्रत्यागच्छन्ति।
ते त्रिमासावधौ अस्माकम् अमात्याः इव गृहे आसन्। तेषां प्रत्यागमनं मां दुःखीकरोति।

२०१६-०७-१६ शनिवासरः (2016-07-16 Saturday)