फ्रांसदेशे नीसनगरे आक्रमणम् (Attack in Nice, France)

फ्रांसीयक्रान्त्याः उद्घोषणम् आसीत् स्वायत्तम्-समत्वम्-भ्रातृत्वम् इति। ह्यः तस्य क्रान्त्याः संवत्सरः आसीत् च। दुर्भाग्यवशात् अस्मिन् एव दिवसे एकस्मिन् आक्रमणे नीसनगरे अशीतिः जनाः मृत्युं गताः।
श्रीअरविन्दः अलिखत् विश्वे कोऽपि समाजः नास्ति यः सर्वान् त्रीन् अभिप्रायान् असाध्नोत्। यत्र स्वायत्तम्-समत्वम् अस्ति तत्र भ्रातृत्वं नास्ति। यत्र समत्वम्-भ्रातृत्वम् अस्ति तत्र स्वायत्तं नास्ति।

२०१६-०७-१५ शुक्रवासरः (2016-07-15 Friday)