गुरुपूर्णिमा (Guru Purnima)

गुरुपूर्णिमापर्व बुधवासरे २०जूलै२०१६तिथौ अस्ति। गुरोः महिमानं को न जानाति। परा विद्यापि गुरोः कृपया विना प्राप्तुं न शक्यते। मातापितरौ प्रभृति विद्यालये महाविद्यालये विश्वविद्यालये च अस्मभ्यं नैके गुरवः वर्तन्ते। तेषाम् उपकारः कथं विस्मरणीयः। कथ्यते च –
एकमेवाक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत्।
पृथिव्यां नास्ति तद्द्रव्यं यत् दत्त्वा च अनृणी भवेत्॥
परा विद्या गुरोः विना नास्ति तत् कथम् अपरा विद्या। श्रूयते च – गुरुकृपा हि केवलं शिष्यपरं मङ्गलम्। अपरं च –
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम्।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा॥
मन्दिरे गुरुपूर्णिमापर्वणि गुरून् पूजयिष्यामः। भवद्भ्यः निवेदयामः कृपया स्वगुरोः प्रतिमां मन्दिरे आनयन्तु। वयं पण्डितमहोदयस्य निर्देशनेन स्व स्व गुरुं पूजयिष्यामः। पूजा सप्तवादनात् सार्धसप्तवादनपर्यन्तं भविता तत् अनन्तरम् आरतिः अन्ते भोजनप्रसादभाजनम्। कृपया आगच्छन्तु।

२०१६-०७-११ सोमवासरः (2016-07-11 Monday)