निर्वाचनम् (Election)

अद्य औस्ट्रेलियादेशे लोकसभायै राज्यसभायै च निर्वाचनम् अभवत्। लोकसभानिर्वाचनं त्रयाणां वर्षाणाम् अन्तरे भवति। सामान्यतः लोकसभानिर्वाचनेन सह अर्धराज्यसभायै निर्वाचनं भवति। किन्तु अस्मिन् वारे प्रधानमंत्री सम्पूर्णराज्यसभायाः विलयम् अकरोत्। सः किमपि विधायकं पारितं न अशक्नोत् यतो हि तस्य लिबरल इति दलस्य राज्यसभायां बहुमतं न आसीत्। निर्वाचने पूर्णबहुमतं प्राप्स्यामि इति विचिन्त्य सः द्वयोः सदनयोः विलयम् अकरोत्। अद्य निर्वाचनस्य आंशिकः परिणामः एव ज्ञायते किन्तु तस्मात् वयं जानीमः द्वयोः सभयोः लिबरलदलस्य  प्रतिनिधेः सङ्ख्या न्यूनीभविष्यति इति। अनेकेषु निर्वाचनस्थलेषु प्रतिद्वन्द्विदलाभ्यां मताभ्यां ईदृशं न्यूनम् अन्तरम् अस्ति येन मतानां गणना परीक्षणं च एकमासावधौ भविष्यति। तथा प्रशासने निश्चिन्तता एकमासपरम् आगमिष्यति।

२०१६-०७-०२ शनिवासरः (2016-07-02 Saturday)