आसिनोमि (I tie)

अहम् एकं ग्रन्थिम् आसिनोमि। अहम् एकं पोटलम् आसिनोमि। सः पोटलं बध्नाति। तौ पोटलं बध्नीतः।
षिञ् बन्धने इति स्वादिगणीयः सकर्मकः अनिट् उभयपदी धातुः अस्ति।

२०१६-०६-२३ गुरुवासरः (2016-06-23 Thursday)

बरतानीयायाः यूरोपमहाद्वीपेन सह सम्बन्धः (Britain’s Relationship with Europe)

मन्ये श्वः बरतानीयादेशस्य जनाः यूरोपसमूहे स्थातव्यं वा न स्थातव्यं इति विषये मतदानं करिष्यन्ति। मन्ये मतदानस्य परिणामः तु स्थातव्यम् इति निश्चयेन भविष्यति किन्तु तेषाम् हितम् यूरोपसमूहात् बहिर्गमने इति अस्ति। किन्तु यथा सर्वत्र भवति तथापि तत्र अपि भविष्यति यत् हितकरं तत् जनाः न कुर्वन्ति इति।

२०१६-०६-२२ बुधवासरः (2016-06-22 Wednesday)

अन्ताराष्ट्रीय-योग-दिवसः (International Yoga Day)

सर्वेभ्यः अन्ताराष्ट्रीय-योग-दिवसाय शुभाशयाः निवेदयामि। अद्य अस्माकं मन्दिरे योग-उत्सवः असीत्। प्रायः पञ्चाशत् जनाः योगासन-प्राणायाम-ध्यानं अकुर्वन्।

२०१६-०६-२१ मङ्गलवासरः (2016-06-21 Tuesday)

जगन्नाथाष्टकम् (Eight Stanzas for Jaggannatha)

रथारूढो गच्छन् पथि मिलित भूदेव पटलैः
स्तुति प्रादुर्भावं प्रतिपदमुपाकर्ण्य सदयः ।
दया सिन्धुर्बन्धुः सकल जगतां सिन्धुसुतया
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥५॥

अत्र सिन्धुसुतया इति अस्य कः अर्थः अस्ति? कृपया सूचयतु।

इदम् अत्र स्थापयित्वा परं अपठं सिन्धुसुतया इति भगवत्या लक्ष्म्या सह इति। (http://iksusara.blogspot.com.au/2015/07/sri-jagannathastakam.html)

२०१६-०६-१९ रविवासरः (2016-06-19 Sunday)

भगवान् बुद्धः (Lord Buddha)

अद्य मया भगवतः बुद्धस्य उपरि एकं वृत्तचित्रम् दृष्टम्। वृत्तकारा एका पाश्चात्त्या महिला आसीत्। सा निर्वाणं किं कथं बौद्धमार्गेण निर्वाणं प्राप्तुं शक्यते इति चर्चितवती किन्तु अन्ते सा अकथयत् भगवतः बुद्धस्य श्रेष्ठतमम् उपायनम् अस्ति मानवतायै करुणाभावः। यदि जनाः करुणायाः सन्देशम् एव इच्छन्ति तत् तु अन्ये अपि अस्ति किन्तु करुणाभावः निर्वाणस्य मार्गः अस्ति इति भगवतः बुद्धस्य विशेषशिक्षा अस्ति। भगवतः बुद्धस्य सन्देशः निर्वाणाय अस्ति न तु मानवतायै।

२०१६-०६-१८ शनिवासरः (2016-06-18 Saturday)

नवरङ्गम् (Navaranga)

केन्बरास्थस्य हिन्दुमन्दिरस्य वार्षिक-सांस्कृतिकः कार्यक्रमः नवरङ्गम् इति शनिवासरे २५जून२०१६तिथौ सायङ्काले षड्वादनात् सार्ध-अष्टवादनपर्यन्तं भविता। कार्यक्रमे गानं नृत्यम् हास्यं च भवितारः। कार्यक्रमः मन्दिरे एव भविता। सामान्यतः अयं वार्षिकः कार्यक्रमः कस्यां नाट्यशालायां भवति किन्तु अस्मिन् वर्षे अस्माभिः का अपि भाटकशाला न प्राप्ता तस्मात् मन्दिरे अस्य कार्यक्रमस्य आयोजनं कर्तास्मः। कार्यक्रमं परं भोजनस्य अयोजनम् अपि अस्ति। कार्यक्रमे प्रवेशः स्वेच्छादानेन अस्ति किन्तु भोजनाय शुल्कम् अस्ति। यतो हि भोजनं मन्दिरस्य स्वयंसेवकाः न पक्तारः किन्तु व्यवसायिकसूदः पक्ता तस्मात् शुल्कम् अस्ति। कृपया कार्यक्रमे आगच्छन्तु अन्यैः भक्तैः सह आनन्दं सहभजन्तु।

२०१६-०६-१७ शुक्रवासरः (2016-06-17 Friday)

को लिखति (Who writes?)

अद्य अहं अपश्यम् स्तन्त्रविश्वविज्ञानकोशे (wikipedia) अनैके संस्कृतलेखाः सन्ति इति। पश्यतु – https://www.wikiwand.com/sa/स्वामी_विवेकानन्दः

इमान् लेखान् को लिखति?

२०१६-०६-११ शनिवासरः (2016-06-11 Saturday)