व्यक्तः (Manifested)

कानिचित् दिनानि पूर्वाणि मया व्यज्यते इति पदस्य उपरि द्वे वार्तापत्रे लिखिते। यस्मात् प्रत्ययधात्वोः संयोगात् व्यज्यते इति भवति तस्मात् एव व्यक्तः इति अपि उद्गच्छति।
वि + अञ्जू + क्तः इति व्यक्तः इति। अञ्जू व्यक्तिम्रक्षणं कान्तिगतिषु रुधादिगणीयः सकर्मकः वेट् परस्मैपदी धातुः अस्ति। वाचस्पत्यम् व्यक्तः इति स्फुटे प्रकाशिते इति मेदिनी प्राज्ञे इति अमरः।
विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा।
रसतामेति रत्यादिः स्थायी भावः सचेतसाम्॥
The steady pleasant condition of intelligent people acquires a flavour (when) expressed together with vibhaava and anubhaava.
अपि अयम् अनुवादः अस्य श्लोकस्य अन्वयस्य अन्वयं निकषा अस्ति?

२०१६-०३-११ शुक्रवासरः (2016-03-11 Friday)