हितोपदेश-सुभाषित-श्लोकाः 1 (Hitopadesha Subhashit Sloka 1)

अथ मङ्गलाचरणम् (Now the invocation)
सिद्धिः साध्ये सतामस्तु प्रसादात् तस्य धूर्जटेः ।
जाह्नवीफेनलेखेव यन्मूर्ध्नि शशिनः कला॥१॥
अस्मिन् श्लोके यत् इति यस्य अर्थे प्रयुज्यते। कथम्? न जानामि कृपया अवबोधयतु।
पदविभागः –
सिद्धिः साध्ये सताम् अस्तु प्रसादात् तस्य धूर्जटेः । जाह्नवी-फेन-लेखा इव यत्-मूर्ध्नि शशिनः कला॥१॥
अन्वयः –
साध्ये (In the undertakings or work or duty) सताम् (of good persons) अस्तु ((let there) be) सिद्धिः (success) प्रसादात् (from the blessings) तस्य धूर्जटेः(of that Shiva) यस्य मुर्ध्नि (on whose forehead) शशिनः कला (अस्ति) (there is a part of moon) जाह्नवीफेनलेखा इव (sketched like the foam of the river Ganga) ।
प्रातिपदिकाः धातवः च –
सिद्धिः (सिद्धि १/१ स्त्री॰) साध्ये (साध्य ७/१ नपु॰) सताम् (सत् ६/३ पु॰) अस्तु (√असँ भुवि २ प॰ सेट् लोट्-प्र-एक॰) प्रसादात् (प्रसाद ५/१ पु॰) तस्य (तत् ६/१ पु॰) धूर्जटेः (धूर्जटि ६/१ पु॰)। जाह्नवी-फेन-लेखा (जाह्नवी-फेन-लेखा १/१ स्त्री॰) इव (०/०) यत्-मूर्ध्नि (मूर्धन् ७/१ पु॰) शशिनः (शशिन् ६/१ पु॰) कला (कला १/१ स्त्री॰)।

२०१६-०२-११ गुरुवासरः (2016-02-11 Thursday)