क्लेदयन्ति, शोषयति (They wet, he Dries)

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः॥गीता २.२३॥
क्लिद् इति शुष् इति च दिवादिगणीयौ धातू स्तः। तत्र श्यनि अतः अपित्वात् गुणः न भवितुम् अर्हति क्लिद्यन्ति शुष्यति इति रूपे भवतः इति मन्ये तस्मात् गीतायां कथं क्लेद्यन्ति शोषयति इति मम प्रश्नः।

उपरि लिखितविषये चिन्तित्वा मन्ये क्लेदयन्ति शोषयति इति णिजन्तरूपे स्तः। अपि तत् सत्यम्?

२०१६-०१-१४ गुरुवासरः (2016-01-14 Thursday)