कर्णावती-गान्धिनगरयोः यात्रा (Visit to Ahmedabad and Gandhinagar)

GujEducationMinister10Jan2016रविवासररात्रौ अहं कर्णावतीनगरं अगच्छम्। तत्र प्रवीणतोगडीयावर्यम् अमिलम्। तस्य सन्न्यासिनः इव जीवनं दृष्ट्वा अहं अतीवप्रभावितः अभवम्। तम् अहं संस्कृतशिक्षकाणां प्रशिक्षणाय निवेदितवान्। सः चिन्तयिष्यामि इति अकथयत्। अद्य गुर्जरराज्यस्य शिक्षामन्त्रिणं श्रीभूपेन्द्रसिंहचूडसमावर्यं गान्धिनगरे सचिवालये अमिलम् तं संस्कृतशिक्षकाणां प्रशिक्षणाय निवेदितवान्। सः दर्शनं इति (http://dss.sgvp.org/) पाठशालां गच्छन्तु इति अकथयत्। तं मिलित्वा वयं दर्शनम् इति पाठशालां अगच्छाम। तां पाठशालां अवलोक्य आनन्दितवन्तः। तत्र मुनिस्वामिना सर्वं व्याख्यातम्। ते कथं निःशुल्कम् अन्तेवासिनः प्रथमकक्षायाः आरभ्य आचार्यः इति उपाधिपर्यन्तम् अध्यापयन्ति। छात्राः तत्र एव निवसन्ति। गान्धिनगरयात्रायां प्रकाशवर्यः तस्य अग्रजः दिलीपवर्यः मम अग्रजः कुसुमांशुः च मया सह आसन्। गान्धिनगरतः कर्णावतीम् आगम्य ततः वडोदरानगरं प्रत्यागच्छम्।

 

२०१६-०१-११ सोमवासरः (2016-01-11 Monday)