शिष्टः (They (two) teach)

शासुँ अनुशिष्टौ इति अदादिगणीयः परस्मैपदी धातुः अस्ति। शासुँ इति जक्षित्यादयः अन्तर्गणे अस्ति तस्मात् जक्षित्यादयः षट् (६.१.६) इति सूत्रेण शासुँ इत्यस्य अभ्यस्त-संज्ञा भवति।
लट्
शास्ति शिष्टः शासति
शास्सि शिष्ठः शिष्ठ
शास्मि शिष्वः शिष्मः
अहं प्रसन्नः अस्मि यतो हि अहम् अगवेषयम् कैः सूत्रैः शिष्टः इति रूपं सिद्धयति। सूत्रसूच्यां यानी सूत्राणि शास् इत्यस्मात् आरभ्यन्ते तानि दृष्टानि तत् परं सम्यग् सूत्रं प्राप्तम् – शास इदङ्हलोः (६.४.३४)। अस्य सूत्रस्य वृत्तिः मया पठिता http://avg-sanskrit.org/avgdocs/doku.php?id=sutras:6-4-34 इति जालपत्रे। तत्र एव प्राप्तम् अन्यं सूत्रम् – शासिवसिघसीनां च (८.३.६०)।
आभ्यां सूत्राभ्याम् प्रथमे शास् धातौ आकारस्य इकारः आदेशः भवति तत् परं सकारस्य षकारः आदेशः भवति (आदेशः substitute)।
शास् तः
शिस् तः – शास इदङ्हलोः (६.४.३४)
शिष् तः – शासिवसिघसीनां च (८.३.६०)
शिष्टः – ष्टुना ष्टुः (८.४.४१)

२०१६-०१-०५ मङ्गलवासरः (2016-01-05 Tuesday)