भा दीप्तौ (To shine, to seem)

भा दीप्तौ अदादिगणीयः परस्मैपदी अनिट् धातुः अस्ति।
अदादिगणिभ्यः आकारान्तधातुभ्यः द्वे विशेषसूत्रे स्तः।
लङः शाकटायनस्यैव (३.४.१११)
उस्यपदान्तात् (६.१.९६)
मां भाति सः अद्य आगमिष्यति इति। (It appears to me that he will come today.)
भाति मे भारतम्। (Shines my India.)
लट्
भाति भातः भान्ति
भासि भाथः भात
भामि भावः भामः
लोट्
भातु भाताम् भान्तु
भाहि भातम् भात
भानि भाव भाम
लङ्
अभात् अभाताम् अभान्/अभुः
अभाः अभातम् अभात
अभाम् अभाव अभाम
लिङ्
भायात् भायाताम् भायुः
भायाः भायातम् भायात
भायाम् भायाव भायाम

२०१६-०१-०३ रविवासरः (2016-01-03 Sunday)