सम-विषम-सङ्ख्यकानि वाहनानि (Odd-Even Numbered Vehicles)

दिल्लीनगरे प्रवर्तमाना सम-विषम-योजना प्रशंसनीया अस्ति। न मन्ये अस्मात् वायुप्रदूषणे किमपि अन्तरं भविष्यति किन्तु अन्यानि प्रसाशनकार्याणि कुशलानि भविष्यन्ति। नैके जनाः ये न जानन्ति कथं सर्वयानेन सर्वसंयानेन वा (by bus or metro) गमनागमनं भवति ते तत् ज्ञास्यन्ति। सर्वे वायुप्रदूषणविषये गमनागमनविषये सम्मर्दनविषये च चिन्तनं करिष्यन्ति। मन्ये तस्मात् दिल्लिनागरिकाः लाभान्विताः भविष्यन्ति।

२०१६-०१-०२ शनिवासरः (2016-01-02 Saturday)