अत उत् सार्वधातुके (६.४.११०) (Replace a with u)

करोति कुरुतः कुर्वन्ति
करोषि कुरुथः कुरुथ
करोमि कुर्वः कुर्मः
√डुकृञ् करणे तनादिगणस्य उभयपदी धातुः अस्ति। तनादिगणे उः इति विकरणः अस्ति।
करोति, करोषि, करोमि – उः विकरणः तथा पित्-निमित्ते गुणः।
कुरुतः, कुरुथः, कुरुथ – उः विकरणः तथा अत उत् सार्वधातुके (६.४.११०) इति सूत्रम्।
कुर्वन्ति – उः विकरणः, अत उत् सार्वधातुके (६.४.११०) इति सूत्रम्, तथा यण्-सन्धिः।
कुर्वः, कुर्मः – उः विकरणः, अत उत् सार्वधातुके (६.४.११०) इति सूत्रम्, तथा नित्यं करोतेः (६.४.१०८) इति सूत्रम्।

२०१५-०७-१३ सोमवासरः (2015-07-13 Monday)