साक्षीभूतः (Was present)
अद्यतनस्य संस्कृतवार्तावल्याम् अहं साक्षीभूतः आसम्।
अहो आनन्दः।
वार्तावल्याः सर्वाणि अङ्गानि मनोहराणि आसन्। मनसि अतीवानन्दः जायते हर्षं उत्साहं च अनुभवामि।
दूरदर्शनसंस्कृतवृन्दम् अस्य श्रीगणेशस्य हार्दं अभिवादनं भविष्याय नैकाः शुभकामनाः च व्याहरामि।
सोत्सुकतया आगामिवार्तावल्याः प्रतीक्षां करोमि।
Advertisements
hnbhat 9:32 pm on June 28, 2015 Permalink |
साक्षीभूतः आसम् (Was present)|
साक्षी – संज्ञाग्रहणम् अभिधेयनियमार्थम्। साक्षाद् द्रष्टा साक्षी। साक्षिणौ। साक्षिणः। संज्ञाग्रहणादुपद्रष्टा एव उच्यते, न दाता ग्रहीता वा।
5-2-91 साक्षाद् द्रष्टरि संज्ञायाम्| इति साक्षात् इत्यव्ययात् परस्य धत इनिः प्रत्ययः।
Srinivasa 9:11 pm on June 30, 2015 Permalink |
भट्टवर्याय धन्यवादाः। साक्षी – साक्षात् द्रष्टा। ‘अव्ययानां च सायंप्रातिकाद्यर्थमुपसंख्यानम्’ (६।४।१४४) इति वार्त्तिकमनुसृत्य (साक्षात्) अव्ययस्य टिलोपः प्राप्तः । शेषकार्यः श्राद्धीवत् (५।२।८५ श्राद्धमनेन भुक्तमिनिठनौ) ।
hnbhat 5:50 am on August 16, 2015 Permalink
कार्यशब्दस्य नपुंसकलिंगत्वात् कार्यमिति भाव्यम्!