रामकथा (The Story of Rama)

अद्य राष्ट्रीय-वीथिकायां रामकथा इति प्रदर्शनं द्रष्टुम् आवाम् अगच्छाव। प्रदर्शने लघु-चित्राणि एव सन्ति। सम्पूर्णं प्रदर्शनं दिल्लीनगरतः अत्र आगच्छत्। इदं रामकथा-प्रदर्शनम् अगस्तमासे इतः निर्गमिष्यति।

अद्य वातावरणम् अपि रमणीयम् आसीत् तस्मात् प्रदर्शनं दृष्ट्वा आवां भ्रमणाय अपि अगच्छाव। सामान्यतः शीतकाले अत्र तीव्रवातः प्रचलति किन्तु अद्य वातः नासीत्।

२०१५-०६-१४ रविवासरः (2015-06-14 Sunday)