अच्-सन्धि-अभ्यासः(Exercise – Euphonic Combination of Vowels)

गीतायां प्रथमे अध्याये इमे अच्-सन्धि-युक्ताः शब्दाः सन्ति। कस्मिन् श्लोके प्रत्येकः शब्दः अस्ति तत् अन्वेषयतु। तेषां शब्दानां सन्धिविग्रहं करोतु। याभिः यैः सूत्रैः तयोः विगृहीतयोः शब्दयोः मध्ये अच्-सन्धिः भवति तानि सूत्राणि अपि लिखतु।
पश्यैताम् भीमार्जुनसमा भीष्माभिरक्षितम् त्विदमेतेषाम् भीमाभिरक्षितम् एवाभिरक्षन्तु सहसैवाभ्यहन्यन्त शब्दस्तुमुलोऽभवत् सात्यकिश्चापराजितः मेऽच्युत यावदेतन्निरीक्षेऽहम् योत्स्यमानानवेक्षेऽहम् एतेऽत्र तत्रापश्यत् परयाविष्टो दृष्ट्वेमम् हस्तात्त्वक्चैव श्रेयोऽनुपश्यामि त इमेऽवस्थिता पुत्रास्तथैव पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः तस्मान्नार्हा यद्यप्येते कृत्स्नमधर्मोऽभिभवत्युत् अधर्माभिभवात् नरकायैव नरकेऽनियतम् भवतीत्यनुशुश्रुम एवमुक्त्वार्जुनः रथोपस्थः गीतासूपनिषत्सु श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगः प्रथमोऽध्यायः यावदेतन्निरीक्षेऽहम्।
अपि प्रथमे अध्याये काः के अपि अन्याः शब्दाः सन्ति यत्र अच्-सन्धिः अस्ति किन्तु उपरि न लिखिताः।

२०१५-०६-०७ रविवासरः (2015-06-07 Sunday)