उररीकृ (to accept, to extend)

स्वीकाररूपार्थे ऊर्यादिषु पठ्यते । …। विस्तारेऽप्ययं क्वचित् पठ्यते इति अव्ययकोशः । ऊरी-उररी शब्दावङ्गीकरणे विस्तारे च इति काशिकावृत्तिः (ऊर्यादिच्विडाचश्च १।४।६१)।

“मौद्गल्य यज्ञसेनश्यालमुररीकृत्य मुच्यन्तां सर्वे बन्धनस्थाः” (मालविकाग्निमित्रे पञ्चमे अङ्के)
Maudgalya! Release all prisoners including Yajnasena’s brother-in-law. उररीकृत्य – “Having accepted” i.e., “including” इति कालेमहाभागः (पृ. ३५३)

“आजानुबाहुं उररीकृतसप्ततन्तुं मातङ्गशैलसदनं वरदं प्रपद्ये” (श्रीमदप्पय्यदीक्षितविरचितवरदराजस्तवे ३) अथवा
आजानुबाहुं स्वीकृतयज्ञं हस्तिगिरिनिवासं वरदराजं प्रपद्ये इति।

बाङ्लादेशैन साकं अभ्युपगतं भूमिसीमसन्धिं प्रवर्तयिता ऐतिहासिक संविधानसंशोधनविधेयकं ह्यः संसदा सर्वसम्मत्या उररीकृतम्। (दूरदर्शने संस्कृतवार्तायां ८/५/२०१५)

The historic constitutional amendment bill to operationalise the Land Boundary agreement with Bangladesh was passed unanimously in the parliament yesterday.

२०१५-०५-०८ शुक्रवासरः (2015-05-08 Friday)