राहुलवर्यः अवकाशे कुत्र अगच्छत् (Where did Rahul go on his vacation)?

राहुलवर्यः तस्य रहस्यावकाशे कुत्र अगच्छदिति कोऽपि न जानाति । यत्रापि सः अगच्छत् तत्प्रदेशे विधिवशात् सः ज्ञानोदयं प्राप्तवान् नेहरूवर्यस्य समाजवादेन सह प्रत्यागतवानिति कोऽपि संदेहः नास्ति। पुनरागमनान्तरं सः मोदीशासनं धनस्वामिनः शासनमित्युक्त्वा अतीव कटुशब्देन खण्डितवान् च । इतः पूर्वं तस्य पितामही इन्दिरावर्या तस्याः आर्थिकोदारीकरणकार्यक्रमेण (economic liberalization programme) शास्त्रोक्तरीत्या मन्त्रोपचारेण सह नेहरूसमाजवादस्य अन्तिमसंस्कारः स्वयं १९८२ वर्षे कृतवती इति सुविदितमेव । तर्हि कुतः राहुलवर्यस्य अयं समाजवादप्रत्ययः? अहं न जानामि, स एव न जानाति। किं बहुना विधाता अपि न जानाति।

पश्यतु – http://indianexpress.com/article/opinion/columns/fifth-column-future-planning/

२०१५-०५-०६ बुधवासरः (2015-05-06 Wednesday)