रानी (Queen)

मङ्गलवासरे रात्रौ आवां क्वीन इति चलचित्रम् अपश्याव। अर्धम् एव दृष्ट्वा तत् चलचित्रम् अवरुद्धम्। मन्ये तत् चलचित्रं राष्ट्रपतिना पारितोषिकेन सम्मानितम्| कथम् इदम् अहं न अवबोधामि। चलचित्रस्य पटकथा अविश्वसनीया अस्ति। नयिकायाः चरित्रं विदेशं गत्वा पूर्णरूपेण परिवर्तति। साक्षात् जीवने एतादृशं न भवति। अदर्शनीयं क्वीन इति चलचित्रम्।

२०१५-०५-०७ गुरुवासरः (2015-05-07 Thursday)