अदिधेट् – लङ्लकारः, परस्मैपदी, प्रथमपुरुषः, एकवचनम्।

अदिधेट् – लङ्लकारः, परस्मैपदी, प्रथमपुरुषः, एकवचनम्।
धिषँ शब्दे [११०२] जुहोत्यादिगणीयः परस्मैपदी सेट्
धिष् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
धिष् लँङ् (अनद्यतने लङ् (३.२.१११))
धिष् ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
धिष् तिप् (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
धिष् ति (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
धिष् धिष् ति (कर्तरि शप् (३.१.६८), जुहोत्यादिभ्यः श्लुः (२.४.७५), श्लौ (६.१.१०))
धि धिष् ति (पूर्वोऽभ्यासः (६.१.४), हलादिः शेषः (७.४.६०))
दिधिष् ति (अभ्यासे चर्च (८.४.५४))
अट् दिधिष् ति (लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१))
अ दिधिष् ति (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
अदिधेष् ति (पुगन्तलघूपधस्य च (७.३.८६))
अदिधेष् त् (इतश्च (३.४.१००))
अदिधेष् (हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८))
अदिधेड् (झलां जशोऽन्ते (८.२.३९))
अदिधेट् (वाऽवसाने (८.४.५६))