फरोख (Farrokh)

अद्य सायंकाले अहं फरोख नाम एकेन सज्जनेन सह अमिलम्। सः द्विसप्ततिः वर्षीयः अस्ति। सः विद्युत्-अभियन्ता अस्ति। सः ईरानदेशात् केलिफोर्नियाराज्यं प्रायः १९७०वर्षे आगच्छत्। सः अकथयत् – सर्वे Indo-European इति वदन्ति किन्तु European तत्र किमपि नास्ति सर्वम् Indian एव अस्ति। सः मन्यते फारसी इति भाषा संस्कृतभाषायाः अन्यतमं रूपम् अस्ति। मया सः पृष्टः भवान् इदं सर्वं कथं जानाति इति। सः प्रत्यावदत् – मया सर्वं स्वप्रयासेन फारसी-यूरोपियभाषयाः विग्रहेण एव इदं सर्वं अन्वेष्टम्। सः अकथयत् भारतात् एव जनाः यूरोपम् अगच्छन् न तु ततः भारतम्। आश्चर्यमयम् अस्ति सः स्वप्रयासेन एव सर्वं जानाति किन्तु Indology इति विषयस्य विशेषज्ञाः न जानन्ति।

२०१५-०४-०१ बुधवासरः (2015-04-01 Wednesday)