संस्कृतमेव न चिरात् विश्वभाषात्वं ग्रहीष्यति….

अहो आनन्दः।

Balramshukla's Blog

अकादमीपत्रिकायाः संस्कृतप्रतिभायाः प्रत्यग्रेऽङ्के (अक्तूबर दिसं॰ २०१४, उन्मेषः ५३) प्रकाशितः साक्षात्कारः– 

                                              R.K.Sharma

       संस्कृतमेव न चिरात् विश्वभाषात्वं ग्रहीष्यति – आचार्यरामकरणशर्मा

                  (अमेरिकादेशतः स्वदेशमागतस्य रामकरणशर्मणः बलरामशुक्लेन साक्षात्कारो गृहीतः।)

   प्रतिवर्षमिव आचार्या रामकरणशर्माणः विदेशात् द्वित्रमासान् भारतेऽतिवाहयितुं पिंसेल्वानियातः देहलीम् आगता इति संस्कृतज्ञेषु जनेषु चैतन्यप्रत्यावर्तनमिव सूचनमस्माभिरप्यधिगतम्। संस्कृतोज्जीवनायाजीवनं सोत्साहं सनिष्ठं च सप्रयत्नानां विश्वस्मिन्नपि जगति संस्कृतक्षेत्रे पितामहत्वेनाख्यातानां गद्यपद्यादिप्रचुररचनयाधुनिकसंस्कृतसाहित्यं समर्धितवतां अजातशत्रूणां गुरुवर्याणां साक्षात्कारः संस्कृतप्रतिभायां प्रकाशमायात्विति सम्पादकमहोदयानांनिदेशमुपलभ्याहं स्वच्छात्रद्वितीयः पूर्वत एव गृहीतसमयः एतेषां विज्ञानविहारस्थं निवासस्थानमेव प्राप्नवम्। तत्र च लब्धं मया समस्तशास्त्रसिद्धान्ताधिगतिसम्प्राप्तोन्नतावपि समधिकौदार्यभरावनतानां सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतिचराणां संस्कृतसंस्थानस्य संस्थापकनिदेशकचराणां प्राच्यप्रतीच्यसंस्कृतवर्धिनीनां सभानां सम्मान्याध्यक्षाणां अपूर्वाणां सर्वोत्तराणां विपश्चिदपश्चिमानां परमदक्षिणानां तत्रभवतां आचार्यरामकरणशर्ममहाभागानां पुण्यलभ्यं दर्शनम्। प्रत्युद्गतोऽहं सस्नेहमासनं गृहीत्वा सामान्यचर्चानामनन्तरं धन्यमात्मानं मन्यमानः प्रश्नोत्तराभ्यां अनुज्ञामुपलभ्य ध्वनिमुद्रणयन्त्रं च सज्जीकृत्य प्रारब्धवान् वार्तालापमेवम–

    बलरामशुक्लः (ब॰शु॰) – सर्वप्रथमम् अहं भवतः प्रणमन्नाभारभरं निवेदयामि यत् श्रीमद्भिः स्वकीयाद् बहुमूल्यकालात् निष्कास्य किञ्चिद् अस्माकं संस्कृतजनानां…

View original post 2,836 more words