श्रीबलदेवानन्दः लिखति (Shri Baladevananda Writes)

इदं जालपत्रम् – सम्प्रति वार्ताः पठ्यन्ताम् – लेखको बलदेवानन्दसागरः
गोवा-प्रदेशे श्रीक्षेत्र-तपोभूमौ विगते सप्ताहे त्रिदिवसात्मकम् अन्ताराष्ट्रिय-संस्कृत-महासम्मे- लनं संपन्नम् | स्वामिनः ब्रह्मेशानन्दाचार्यस्य वेद-महाविद्यालयेन गोवा-प्रदेशीय-राज-भाषा-विभागेन च सम्भूय आयोजिते अन्ताराष्ट्रिय-संस्कृत-महासम्मेलने अनेकानि उपसम्मेलनानि आयोजितानि येषु धर्म-संस्कृति-सम्मेलनम् , संस्कृत-विदुषी-सम्मेलनम्, संस्कृत-पत्रकार-सम्मेलनम् चादीनि अन्यतमानि आसन् | अस्य महासम्मेलनस्य अध्यक्ष-पदं सुख्यात-संस्कृत-विदुषा ‘शारदा’-पत्रिकायाः सम्पादकेन आचार्य-वसन्त-अनन्त-गाड्गिलेन अलंकृतम् | भारतीय-संस्कृत-पत्रकार-संघस्य उपाध्यक्षः डो.सदानन्द-दीक्षितः, महासचिवः डो.बलदेवानन्द-सागरः, ‘संस्कृत-संभाषण-संदेशः’- इति मासिक-पत्रिकायाः सम्पादकः श्री-जनार्दन-हेगडेः, ‘नव-भारत-टाइम्स’- इति दैनिक-पत्रस्य सम्पादक-चरःडो.गणेश-कौशिकः च पत्रकार-सम्मेलने संस्कृत-पत्रकारितायाः काठिन्यानि समुपायान् च विशदीकृतवन्तः | अन्ताराष्ट्रिय-संस्कृत-महासम्मेलने होलैण्ड्-इटली-अमेरिका-इन्गलैण्ड्-देशेभ्यः समागताः प्रतिनिधयः विद्वान्सः च भारतीय-संस्कृतेः संस्कृतस्य आध्यात्मिक-परम्पराणां च महत्वं ख्यापितवन्तः|

२०१५-०३-०६ शुक्रवासरः (2015-03-06 Friday)

Sanskrit Journalists' Conference - Goa March 2015

Sanskrit Journalists’ Conference – Goa March 2015