अजीतवर्याय नमः (Bowing to Ajit)

संस्कृतलिप्यै एकं गूगल-उपकरणम् अस्ति। तस्य सहायतापृष्ठे अस्ति schemes इति अनुसंपुटे itrans.scm इति करपत्रं स्थापनीयम्। schemes इति संपुटम् अस्मिन् स्थाने अस्ति च C:/Program Files/Google/Google [Language] Input/)। किन्तु अजीतकृष्णवर्यः स्वजालपत्रे लिखति schemes इति संपुटम् अस्मिन् स्थाने स्थापनीयम् – C:/ProgramData/Google/Google Input Tools/com.google.input_tools.t13n.ime.sanskrit/। मया ProgramData इति सम्यग् न दृष्टम्। तत् अदृष्ट्वा Program Files इति संपुटे अन्वेषणं कुर्वन् महत् कालं नष्टं कृतम्। कथम् अजीतवर्यः गूगलात् अधिकं जानाति इति रहस्यम् अस्ति।

२०१५-०१-११ रविवासरः (2015-01-11 Sunday)

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.