आपृण (Fulfill)

सेमं नः काममा पृण गोभिरश्वैः शतक्रतो।
स्तवाम त्वा स्वाध्यः॥ऋगवेदः १-१६-९॥
उपरि लिखितः श्लोकः वैदिकसंस्कृते अस्ति। अत्र मम मतेः इमं श्लोकं लौकिकसंस्कृते लिखामि-
सः इमं नः कामं आपृणु गोभिः अश्वैः शतक्रतो।
स्तुमः त्वां स्वाध्यः॥
अहं न जानामि स्वाधी इति प्रातिपदिकस्य रूपाणि प्रधीवत् भवन्ति अथवा सुधीवत्। यदि सुधीवत् भवन्ति तर्हि स्वाध्यः इति स्वाधियः इति भवति।
अपि छन्दसि तद् इति सर्वनामशब्दे संबोधनम् अस्ति? शतक्रतो इति सम्बोधने अस्ति तस्मात् सः इति अपि सम्बोधने भवितुम् अर्हति।

२०१५-०१-०३ शनिवासरः (2015-01-03 Saturday)