महान् अध्यायः पूर्णः अभवत् (A Great Chapter has Ended)

अद्य मम जीवनस्य एकः महान् अध्यायः पूर्णः अभवत्। अद्य श्रीदलपतराय-श्रीवास्तवः उदयपुरनगरे दिवं गतः। सः प्रायः नवतिवर्षीयः आसीत्। सः माम् अध्यापयत्  अध्यापनार्थम् आर्थिकरूपेण अपि साहाय्यम् अकरोत्। सः अनेकान् जनान् साहाय्यम् अददात्। सः उदयपुरविश्वविद्यालये भौतिकशास्त्रस्य शिक्षकः आसीत्। सः अस्माकं परिवारस्य सदस्यः कथम् अथवा कदा अभवत् अहं न जानामि। तस्य का माता कः पिता इति अपि अहं न जानामि। तस्य एका भगिनी एकः भ्राता आस्ताम् इति जानामि। तस्मै अहं तस्य विश्वः आसम्। मम विकासार्थं सः मां सुदूरं प्रेषितवान् तस्मात् अहं तस्य कस्मिन् अपि दुःखे सहभागित्वं न अददाम्। सः कदापि स्वस्य कष्टं मां न अकथयत् मम सुखे स्वसुखम् एव अमन्यत्। गतत्रिवर्षात् सः चलितुं न अशक्नोत् तस्मात् शय्याविहितः एव आसीत्। अन्ते तस्य पूर्णा सम्पत्तिः आसीत् एकं चलदूरभाषयन्त्रं येन सः अस्माकं कुशलम् अपृच्छत्। निधनात् मम मनसि तीव्रवेदना वर्तते। जीवने तम् असूचयित्वा मया किमपि कार्यं कदापि न कृतं तस्मात् कथयामि तस्य निधनात् मम जीवनस्य एकः महान् अध्यायः पूर्णः अभवत्।

२०१४-१०-२७ सोमवासरः (2014-10-27 Monday)