अनु + इण् गतौ (To Follow)

इण् गतौ अनिट् परस्मैपदी अदादिगणीय धातुरस्ति ।
लट् लकारे अन्वेति अन्वितः अनुयन्ति इत्यादि।
अन्वेतुम् (तुमुन्) – to follow, for the purpose of following

गतिं खर इवाश्वस्य हंसस्येव च वायसः।
नान्वेतुमुत्सहे राम तव मार्गमरिन्दम ।। रामायणे ६।१२८।५

अत्र युद्धकाण्डस्य चरमे सर्गे अथवा श्रीरामपट्टाभिषेकसर्गे भरतः अग्रजं रामं वदति –
अहमिदं राज्यं तुभ्यं पुनः ददामि यतोहि अहमिमं राज्यभारं वोढुं न उत्सहे, अहं तव मार्गं अन्वेतुमपि न उत्सहे ।

यथा खरः अश्वस्य गतिं अन्वेतुं न शक्नोति, वायसश्च हंसस्य गतिं अन्वेतुं न शक्नोति तथा अहमपि तव मार्गं अन्वेतुं न शक्नोमि इत्यर्थः ।
वस्तुतः काकेन हंसस्य अनुकरणमसाध्यमेव। इदं सत्यं भाषायामपि ‘ कौवा चले हंस की चाल’ इति प्रसिद्धम् ।

२०१४-१०-०३ शुक्रवासरः (2014-10-03 Friday) शुक्रवासरः (2014-10-03 Friday)