मम कक्षायाम् अस्ति (Is in my class.)

रात्रौ दूरदर्शने Q&A इति कार्यक्रमः चलति स्म। कार्यक्रमे ते ब्रायन-श्मिट् इति अवदत् तत् श्रुत्वा आवयोः कन्या दूरदर्शनयन्त्रं निकषा आगम्य माम् अपृच्छत् अपि सः ब्रायनः नोबेलपुरस्कारविजेता अस्ति इति। तत्क्षणे एव प्रस्तुतकर्ता नोबेलपुरस्कारविषये किमपि अवदत्। तदा आवयोः कन्या अकथयत् तस्य पुत्रः अस्माकं कक्षायाम् अस्ति सः अपि मेधावी अस्ति।
कृपया चिन्तयतु अत्र नोबेलपुरस्कारविजयतुः पुत्रः अपि प्रशासनीये विद्यालये एव पठति। तस्य अर्थः अस्ति नोबेलपुरस्कारविजेता अपि मन्यते अत्र प्रशासनीयः विद्यालयः अपि भावीं नोबेलपुरस्कारविजेतां सज्जीकर्तुं शक्नोति।
http://iview.abc.net.au/programs/qanda?WT.srch=1&WT.mc_id=Corp_TV-iview|iviewAdwords_AdWords_:abc

२०१४-०९-१५ सोमवासरः (2014-09-15 Monday)