डॉरमेशगोविन्दः केन्बरानगरे अस्माकं प्रतिवेशी आसीत्। सः इदानीं केपटाउनविश्वविद्यालये प्राध्यापकः अस्ति। उपवेशनस्य अद्यतनस्य नियतकार्यक्रमस्य परम् अहं तेन सह सायंकाले अमिलम्। तेन सह अहं वाटरफ्रण्ट इति स्थले भोजनाय अगच्छम्। सः अतिरोचकः संवादी अस्ति। सः शान्तः अस्ति किन्तु यदा सः संवादं करोति तदा तस्य संवादः रोचकः एव अस्ति।
२०१४-०८-२६ मङ्गलवासरः (2014-08-26 Tuesday)