मम वक्तव्यम् (My Speech)

अद्य प्रातः सार्धसप्तवादनात् सार्ध-अष्ट्वादनपर्यन्तं मया दिल्लिस्थलालदुर्गात् राष्ट्राय वक्तव्यम् भणितम्। वक्तुः देहः तु नरेन्द्रमोदीवर्यस्य आसीत् किन्तु प्रवचनन् तु मया एव कल्पितम्। यस्मिन् पत्रे मया इदम् लिखितं तत् पत्रम् अत्र संलग्नम् अस्ति। तत् तु दशवर्षपूर्वम् एव। देशे यदि स्वच्छता भविष्यति तदा सर्वम् अन्यम् अपि भविष्यति इति मोहनदासस्य वचनं मया पठितम्। तत् परं तत् वचनं मया ध्यातम् ध्यात्वा तस्मिन् वचने मां दृढविश्वासः अभवत्। यदि नरेन्द्रमोदीवर्यः यथोक्तं कार्यं करिष्यति तर्हि भारतदेशः असंशयः आढ्यः भविष्यति।

openletter4Jan2004

२०१४-०८-१५ शुक्रवासरः (2014-08-15 Friday)