कॉग्रेसदलस्य संकोचितं मण्डलम् (Congress Party’s Shrinking Circle)

कॉग्रेसदलस्य परिवर्तिन्यः घोषणाः चीत्कारः वा तस्य संकोचितस्य मण्डलस्य कथां दर्शयति।
पुरा आसीत् – इन्दीराम् आनय देशं रक्षय (इन्दीरा लाओ देश बचाओ)।
तत् परम् – सोनीयाम् आनय कॉग्रेसदलं रक्षय (सोनीया लाओ कॉग्रेस बचाओ)।
इदानीम् – प्रियङ्काम् आनय राहुलं रक्षय (प्रियङ्का लाओ राहुल बचाओ)।
पुरा देशः इति मण्डलस्य केन्द्रः परिवारः आसीत् किन्तु अधुना तत् मण्डलं संकुच्य केन्द्रम् अमिलत्। मण्डलं केन्द्रं केन्द्रं मण्डलम्। केन्द्रं मन्डलम् अभिन्नम् अस्ति।
इयं कथा मया मीनाक्षीलेखीमहाभागायाः श्रुता।

२०१४-०६-१६ सोमवासरः (2014-06-16 Monday)