उदाहरणम् (An Example)

इव इति कथं प्रयुज्यते तस्य उदाहरणं दर्शनाय डॉसम्पदानन्दमिश्रवर्येण अयं श्लोकः प्रेषितः।
मातेव रक्षति पितेव हिते नियुक्ते
कान्तेव च अभिरम्यति अपनीय खेदम्।
कीर्तिं च दिक्षु विमलां वितनोति लक्ष्मीं
किं किं न साधयति कल्पलता इव विद्या॥

२०१४-०६-१७ मङ्गलवासरः (2014-06-17 Tuesday)