यदि न जयति (If he doesn’t win)

यदि मोदीवर्यः प्रवर्तमाने निर्वाचने विजयी न भविष्यति तर्हि अहं मन्ये कॉग्रेसदलं तं चाँदनीचोक-मध्ये समालम्बयित्वा (having hung) जनानां दर्शनाय तत्र सप्ताहपर्यन्तं स्थास्यति। अहं मन्ये यदि सः परिभूतः भविष्यति तर्हि सः पकिस्तानदेशे अथवा बङ्गलादेशे भारतदेशात् अधिकः सुरक्षितः भविष्यति। मोदीवर्यम् अमेरिकादेशः तु प्रवेशपत्रं न दास्यति तस्मात् सः पकिस्तानदेशं बङ्गलादेशं च प्रवेशपत्राय इदानीम् एव आवेदनं करोतु। १८५७वर्षस्य विद्रोहस्य परं ये अपि जनाः ऋजुकायाः आसन् आङ्ग्लशासकैः ते समालम्बिताः। मोदीवर्यस्य निर्वाचनस्य प्रयासः अपि आङ्ग्लशासक-समरूपस्य कॉग्रेसदलस्य सम्मुखे विद्रोहः एव अस्ति। तस्मात् परिभूयस्य मोदीवर्यस्य दशाम् अपि १८५७वर्षस्य परिभूतानां विद्रोहीनां इव भविष्यति।

२०१४-०५-०१ गुरुवासरः (2014-05-01 Thursday)