पाटोत्सवस्य परं रिक्तं प्रतिभाति (Appears deserted after the Patotsav)

गतशुक्रवासरतः ईस्टर इति अवकाशे अस्माकं नागरबन्धूनां मेलनं केन्बरानगरे आसीत्। तस्मिन् मेलने ब्रिसबेन-मेल्बोर्न-सिडनी-केन्बरानगरेभ्यः प्रायः पञ्चशताधिक-शतम् बान्धवः आसन्। वयं मिलित्वा भोजनम् अकुर्म शङ्करपूजां च अकुर्म। केचित् सांस्कृतिककार्यक्रमाः अपि आसन् येषां बालकानां प्रचुरयोगदानम् आसीत्। खेलनानि अपि आसन् तेषां क्रिकेटस्पर्धा प्रश्नोत्तरस्पर्धा अन्ताक्षरीस्पर्धा अपि आसन्। अहं सर्वान् बन्धून् मिलित्वा अतीव प्रसन्नः अभवम्। अद्य प्रातःकाले सर्वे बान्धवः स्वस्थानं प्रत्यागच्छन्। इदानीं बन्धुभिः विहीनं गृहं केन्बरानगरम् अपि रिक्तं प्रतिभाति। वयं सर्वान् आयोजकान् अस्माकं धन्यवादं पाठयामः।

२०१४-०४-२१ सोमवासरः (2014-04-21 Monday)