HOLLYWOOD चिह्नम् (Hollywood Sign)

अद्य वयं HOLLYWOOD चिह्नं द्रष्टुम् अगच्छाम। मम अनुमानम् आसीत् वयं तस्य चिह्नस्य नातिदूरे यानेन गन्तुं शक्ष्यामः। किन्तु तत् चिह्नं खलु दुर्लभम् अस्ति। प्रथमं तत्र कस्मिन् मार्गे गन्तव्यं अस्य कापि सूचना कऽपि सङ्केतः वा नास्ति। अत्र तत्र भ्रमित्वा अस्माभिः यस्मिन् पर्वते चिह्नम् अस्ति तस्य पादे प्राप्तम्। चिह्नम् अनुप्राप्तुं पर्वतपादात् पादाभ्याम् होरापर्यन्तं आरोहणं कर्तव्यम्। वयं आरोहणाय सज्जाः नास्म तस्मात् अर्धमार्गात् एव प्रत्यागच्छाम। यदा कोऽपि अतिथिः अत्र आगमिष्यति तेन सह पुनः गमिष्यामः।

२०१३-०३-३० शनिवासरः (2013-03-30 Saturday)