दृष्टः (Seen)

मां सदैव संशयः बाधते स्म, अपि दृष्टः अस्ति अथवा द्रष्टः अस्ति, द्रष्टव्यम् अस्ति अथवा दृष्टव्यम् अस्ति। इति।

क्त क्तवतु क्त्वा इति कृत्-प्रत्ययाः कितः सन्ति तेषु प्रत्ययेषु गुणवृद्धी न भवतः। अन्यत्र गुणवृद्धी भवतः। इति स्थितिः।

दृश्+ण्वुल् – दर्शकः, अनीयः, दर्शनीयः इति। ऋ इति अर् इति  भवति।

क्त-क्तवतु-क्त्वा-प्रत्ययेषु तु –

दृश्+त इति स्थिते, “पुगन्तलघूपधस्य च” इति ऋकारस्य गुणः, क्तक्तवतुप्रत्यययोः कित्वात् न भवति।
तथा च, व्रश्वभ्रस्जसृजमृजयजराजभ्राजच्छशां षः॥८।२।३६॥ शकारस्य षत्वे,
दृष्+त, तवत्, त्वा
ष्टुना ष्टुः॥८।४।४१॥ तकारस्य ष्टुत्वे,
दृष्+ट, दृष्+टवत्, दृष्+ट्वा –
दृष्टः, दृष्टवान्/दृष्टवत्, दृष्टवती, दृष्ट्वा इति ऋकारसहितानि रूपाणि।

एवमेव दृष्टिः इति क्तिन् प्रत्यये, स्तीलिङ्गे रूपम्।
सृष्टिः, सृष्टवान्, सृष्टवत्, सृष्टवती, सृष्ट्वा इति रूपाणि।

क्रमेण व्युत्पत्तिदर्शनं यथा —

दृश् + क्त = दृश् + त (हलन्त्यम्) = दृष्ट (स्तोः ष्टुना ष्टुः)
दृश् + क्तवतु = दृश् + क्तवत् (उपदेशेऽजनुनासिक इत्) = दृश् + तवत् (लशक्वतद्धिते) = दृष्टवत् (स्तोः ष्टुना ष्टुः)
दृश् + क्त्वा = दृश् + त्वा = दृष्ट्वा

इति संक्षेपः। कित्प्रत्ययभिन्नेषु, तुमुन्-तव्य-तव्यत्-समानेषु झलादिप्रत्ययेषु कृत्प्रत्ययेषु तु पूर्ववत् लघूपधगुणे प्राप्ते तस्य अपवादः “सृजिदृशोर्झल्यमकिति” (॥६।१।५८॥ ) इति अम् इति आगमः भवति, गुणापवादः, झलादिप्रत्ययेषु अनयोः सृज्-दृश् इति द्वयोर्धात्वोः। अमागमः, मकारस्य “हलन्त्यम्” इति इत्संज्जायाम्, “तस्य लोपः”। शिष्टः अ-कारः, “मिदचोऽन्त्यात् परः” इति अन्त्याद् अचः – ऋकारात् परः विधीयते आगमः।

एवं च – तुमुन् तव्यत्, प्रत्ययेषु दृ+अ-श् +तुम्, तव्य > “इको यणचि”(॥६।१।७७॥) इति ऋकारस्य यण् – रेफादेशे
द्र+श्+तुम्, तव्य > पूर्ववत् “वश्चभ्रश्च- ” इत्यादिना षत्वे, त-कारस्य ष्टुत्वे च क्रमेण —

दृश् + तुमुन् = दृश् + तुम् = द् + ऋ + श् + तुम् = द् + ऋ + अम् + श् + तुम् = द्रष्टुम्

दृश् + तव्यत् = द्रष्टव्यम्, द्रष्टव्यः, द्रष्टव्या इति च रूपाणि।

एवमेव, झलादिप्रत्ययेषु कित्त्वाभावे, द्रष्टा, द्रष्टारौ, द्रष्टारः इति तृन्-प्रत्यये पुंलिङ्गे, स्त्रीलिङ्गे
द्रष्ट्री – द्रष्ट्र्यौ – द्रष्ट्र्यः। इति च रूपाणि।

————–द्रष्टव्यानि सूत्राणि

हलन्त्यम्॥१।३।३॥ उपदेशेऽजनुनासिक इत्॥१।३।२॥ एकाच उपदेशेऽनुदात्तात्॥७।२।१०॥ सृजिदृशोर्झल्यमकिति॥६।१।५८॥  मिदचोऽन्त्यात् परः॥१।१।४६॥ इको यणचि॥६।१।७७॥ व्रश्वभ्रस्जसृजमृजयजराजभ्राजच्छशां षः॥८।२।३६॥ ष्टुना ष्टुः॥८।४।४१॥

अयम् उल्लेखः मया आरब्धः किञ्चित् लिखितः च किन्तु भट्टवर्येण संशोधितः। धन्यवादः।

२०१२-०७-१४ शनिवासरः (2012-07-14 Saturday)