यक्-प्रत्ययः (yak suffix)

सार्वधातुके यक्॥३।१।६७॥

भावकर्मणोः सार्वधातुके यक् प्रत्ययः परश्च भवति। यदा भावः = क्रिया, कर्म = कर्तुरीप्सिततमं कर्म वा लकारैः अभिधीयेते, तदा, सार्वधातुके प्रत्यये परे, धातूनां यक् भवति।

“भावकर्मणॊ:” (१।३।१३) इति तङ्, आत्मनेपदम्। तत्र स्य-सिच्-सीयुट्-तासिषु आर्धधातुकत्वात्, यक् प्रत्ययो न भवति, आत्मनेपदप्रत्ययेनैव कर्मणः भावस्य वाच्यत्वे प्रयोगः। अन्यत्र लकारेषु सार्वधातुकेषु एवास्य यक्प्रत्ययस्य उपयोगः।

लट् – वर्तमाने –

पठ् व्यक्तायां वाचि – कर्तरि शप्, पठति। कर्मणि, पठ्यते।

स वेदं पठति –

तेन वेदः पठ्यते। तेन वेदौ पठ्येते। तेन वेदाः पठ्यन्ते।

कर्मणः लकारेण अभिधानात् वेदस्य प्रथमा विभक्तिः, कर्तुः तृतीयैव – “कर्तृकरणयोः तृतीया” ((पा-२,३.१८) इति। तेन, मया, त्वया वा पठ्यते वेदः। कर्मानुसारेण वचनानि इति विवेकः। पठ्येते – पठ्यन्ते इति।

भू सत्तायम् – अकर्मकः धातुः, अनु+भू – सकर्मकः अनूपसर्गात्।

प्रत्ययः कित् अस्ति तस्मात् क्किङति च॥१।१।५॥ इति सूत्रेन इको गुणवृद्धी न भवतः।

प्रत्ययः यादि अस्ति तस्मात् आर्धधातुकस्येड् वलादेः॥७।२।३५॥ इडागमः न भवति।

प्रत्ययः कित् अस्ति तस्मात् वचिस्वपियजादीनां किति॥६।१।१५॥ इत्यादिसूत्रैः

धातुविशेषाणां तु कित्प्रत्यये विहितानि संप्रसारणादिविशेषकार्याणि भवन्ति –

यथा –

गृह्यते, उष्यते, उद्यते, उप्यते, सुप्यते, उच्यते, उह्यते इत्यादिरूपाणि।

गम्यते, पठ्यते, दृश्यते, खाद्यते,

इति च

कृपया पश्यतु – http://avg-sanskrit.org/2012/06/22/दिधक्षामि-1as-लँट्/#comment-3882

(अयम् उल्लेखः भट्टवर्येण संशोधितः विशदीकृतः च। भट्टवर्याय धन्यवादं निवेदयामि। – हिमांशुः)