अष्टत्रिंशद्वर्षाणि (38 Years)

चतुःसप्तत्यधिकनवषट्शताधिकसहस्रतमे (1974) वर्षे जूनमासस्य त्रिंशत्तमे दिनाङ्के आकाशवाण्याः संस्कृतवार्ताप्रसारणम् आरभत। तस्य चर्चा २९-०६-२०१२तमस्य सायंकालस्य वार्ताप्रसारणे आसीत्।
इदानीं संस्कृतवार्ताप्रसारणस्य श्रव्यं पाठ्यं जालपत्रे आसीत् – http://newsonair.nic.in/NSD-Audio-Bulletins-News-Schedule.asp
यदि भवान् तं श्रव्यं पाठ्यं च प्रत्यक्षरूपेण विद्युत्पत्रेण प्राप्तुम् इच्छति तर्हि http://groups.google.com/group/samskrithanews?hl=en गत्वा सदस्यः भवतु। अथवा अहं सदस्यः भवितुम् इच्छामि इति संदेशं samskrithanews@googlegroups.com इति सङ्केतं प्रेषयतु।
यदि भवान् संस्कृतं शिक्षितुम् इच्छति तर्हि संस्कृतवार्ताप्रसारणं श्रवणात् पठनात् च किमपि अन्यं वरं साधनं नास्ति।

२०१२-०७-०१ रविवासरः (2012-07-01 Sunday)