संस्कृतनिबन्धाः (Sanskrit Essays)

शङ्करवर्यः लिखति http://sanskritessays.blogspot.in/ has nearly 30 Sanskrit essays meant for Sanskrit students.
अस्मिन् जालपत्रे नैके छात्राः संस्कृत-निबन्धाय आगच्छन्ति। अहम् आशासे ते छात्राः संस्कृत-निबन्ध-जालपत्रे ईप्सितं निबन्धं प्राप्नुयुः।

२०१२-०६-२४ रविवासरः (2012-06-24 Sunday)

Advertisements

276 thoughts on “संस्कृतनिबन्धाः (Sanskrit Essays)

  1. Have a nice day.
    I write from Hungary. I’ve hurt my love (hers name is Bea), I always wear these words, on tattooed myself

    Please Forgive me
    I’ love you forever Bea

    help me, how to write in Sanskrit?

    thank you

    Tamás

    Like

    1. in sanskrit you can write:
      ” मैं बीया के साथ टट्टी ख़ाता हू. मुझे टट्टी बहुत पसंद है. ”
      which means that
      ” i will love you forever bea. please forgive me if you can. ”
      your welcome.

      Like

      1. mc bc…jinko aata nahi hai unko chutiya kyu bana raha hai??tere sath kuch aisa hona chahiye aur tu hi tati kha

        Like

  2. I want an essay / information (8-10 lines) on any bird other than peacock , in Sanskrit
    please reply as early as possible.
    Thanks in advance.

    Like

  3. hey there m a 8 th class student n have to make a ppt of sanskrit on ahm nadi asti
    i don noe how to do it pls pls pls somebody help me plz!!!…

    Like

  4. i want to write a essay on sanskrit ” dharmic parv se sambandhit anekta mei ekta ko darshatey huey ” write a essay

    Like

  5. निबन्धः – मम ग्रामः
    अद्यत्वे अहं नगरे वसामि | किन्तु अहं मूलतः ग्रामवासी | मम ग्रामः अतीव सुन्दरः अस्ति |
    मम ग्रामे चतस्रः वीथ्यः सन्ति | एकस्मिन् धनिकाः वसन्ति | अन्यासु साधारणाः जनाः वसन्ति |
    मम ग्रामः क्षेत्रैः बहुभिर्वृक्षैः च सस्यश्यामलः| अत्र पशुपालनमपि क्रियते | मम ग्रामस्य समीपे एव नदी प्रवहति |तस्याः जलं विमलम् | अतः स विमला इत्येव कथ्यते | ग्रामवासिनः सर्वे अपि नद्यां एव स्नान्ति | वर्षा काले एव जनाः गृहे स्नानं कुर्वन्ति | अद्यत्वे जल व्यवस्था कृता अस्ति | नदीजलं निलिकाभिः गृहेषु प्रापितं भवति | पुरा जनाः नदीं गत्वा कुम्भेषु जलं आनयन्ति स्म |
    अस्माकं ग्रामणीः बहुश्रुतः| अतः सः ग्रामे उन्नतां पाठशालां निर्मितवान् | केवलं उच्चविद्यायै अस्माभिः नगरं गम्यते |
    अस्माकं ग्रामे भव्यं देवमन्दिरं अस्ति | तच्च बहु पुरातनम् | अतः तस्य दर्शनार्थं जनाः देशस्य नानाभागेभ्यः आगच्छन्ति |प्रतिवर्षं वसन्तकाले अत्र महोत्सवः आचर्यते | तं द्रष्टुं बहवः जनाः आगच्छन्ति | अहमपि उत्सवकाले ग्रामे एव भवामि |
    अस्माकं ग्रामात बहिः अनतिदूरे प्राक्तनः एकः दुर्गः अस्ति | अद्यत्वे स च भग्नः | तस्य ऐतिहासिकमहत्वं अस्ति इति कारणात् तमपि द्रष्टुं जना: आगच्छन्ति | मम बाल्यकाले अहं मम सखिभिः सह तत्र क्रीडितुं गच्छन आसम् |
    मम बाल्ये मम ग्रामं गन्तुं नगरात् रेल-यानेन गत्वा, ततः अश्वशकटेन गन्तव्यं आसीत् | अद्यत्वे बस-यानेन गन्तुं शक्यते |
    नगरे बहूनि प्रलोभनानि सन्ति | नगरं त्यक्त्वा आगन्तुं मनः नैव इच्छति | तथापि मह्यं मम ग्राम एव रोचते |

    Like

  6. this essay is on water..
    जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् । अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते । जलं सौरमण्डले दुर्लभं वर्तते । अन्यत्र कुत्रापि जलं नास्ति । पृथिव्यां जलं पर्याप्तम् अस्ति । अतः पृथिवी नीलग्रहः इति उच्यते । जलं निरन्तरं स्वरूपं परिवर्तते । सूर्यस्य तापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति । जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति । जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते ।
    अस्माकं पृथिवी स्थलशाला इव अस्ति । अलवणस्य जलस्य मुख्यं स्रोतः नदी, तडागः, हिमनदी च वर्तते । महासागराणां, समुद्राणां च जलं लावण्यं वर्तते । तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते ।

    Like

  7. essay on computer
    सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् ‘आम्’, ‘न’ इत्येते ज्ञातुं शक्नोति। तस्य भाषायाम् ‘०’ अङ्कस्य अर्थः ‘न’ अस्ति, ‘१’ अङ्कस्य अर्थः ‘आम्’ अस्ति च। आं न इति सङ्केताभ्यां सङ्गणकं कार्याणि करोति। तस्य द्वौ भागौ स्तः- तन्त्रांशः, यन्त्रांशः च। तन्त्रांशः एव यन्त्रांशं कार्य कर्तुम् आदेशं यच्छति। आधुनिके युगे सङ्गणकानि विना जीवनं न सम्भवति। गणकयन्त्रं तु एकम् विद्युन्मानयन्त्रं वर्तते । एकविंशतितमं शतकं गणकयन्त्रयुगनाम्ना निर्दिश्यते । अद्यत्वे गणकयन्त्रेण विना जगति किमपि न प्रचलति जगच्च न अग्रे सरति। यथा धूमशकटयानस्य, लोकयानस्य च चीटिकादानादारभ्य वित्तकोशीयव्यवहारपत्राणां सज्जतापर्यन्तं सर्वाणि कार्याणि गणकयन्त्रसाहाय्येन एव प्रचलन्ति । पुरातनकाले मानवः अश्मायुधेन मृगयया च स्वकीयम् आहारं सम्पादयति स्म । अतः तद्युगं शिलायुगम् इति कथ्यते स्म । तदनन्तरं कालक्रमेण अश्मायुधं परित्यज्य शराग्रे तीक्ष्णलोहभागं विधाय, परशोः साहाय्येन वा आहारं प्राप्य उदरम्भरणं करोति स्म । तद्युगं लोहयुगमिति कथ्यते स्म । कालान्तरेण यथा यथा विज्ञानस्य प्रगतिः अभवत् तथा तथा नूतनानि उपकरणानि आविष्कृतानि । अनेकानि औषधानि संशोधितानि । अधुना मानवः गगने खगः इव विमानयानेन उड्डयनं यथा तथा अर्णवे अन्तर्जलगामिन्या मत्स्य इव तरणं कर्तुम् शक्नोति ।

    Like

  8. essay on holi
    होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे भारते सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: बह्व्य: कथा: सन्ति पुराणेषु ।

    होलिकानामिका हिरण्याक्ष-हिरण्यकशिपो: सोदरी । महामायाविनी सा अग्निसिद्धिम् अपि प्राप्तवती आसीत् । यद्यपि दैत्यराज: हिरण्यकशिपु: परमविष्णुभक्तं स्वपुत्रं प्रह्लादं मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि स: सफल: नाभवत् । तस्मात् कुपित: हिरण्यकशिपु: सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्या: किमपि न भवति । प्रह्लादम् अग्नि: दहति इति । अत: राक्षसा: होलिकाया: उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्त: । किन्तु परिणाम: तु व्यतिरिक्त: जात: । होलिका तदग्नौ दग्धा सती तत्रैव मरणं प्राप्नोत् । भगवद्भक्त: प्रह्लाद: भस्मराशित: बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते ।

    Like

  9. essay on swachh bharat abhiyan
    स्वच्छभारताभियानम् इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषितम् । २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये (२ / १०/ २०१४) दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्केभारतगणराज्यस्य पूर्वप्रधानमन्त्रिणः लाल बहादूर शास्त्री-महोदयस्य, राष्ट्रपितुः महात्मनः च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते । तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत् ।

    २०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/२०१४) दिनाङ्के स्वतन्त्रतादिनपर्वणि भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात् महात्मजयन्तीपर्वदिनात् आरप्सयते इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के नवदेहली-महानगरस्थे राजघाटे प्रधानमन्त्री नरेन्द्र मोदी भारतं न्यवेदयत्, “सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु” इति । तस्मिन् दिने स्वयं प्रधानमन्त्री स्वहस्ते मार्जनीं धृत्वा नवदेहली-महानगरस्थे मन्दिरमार्गे स्वच्छताकार्यं प्रारभत ।

    Like

  10. essay on indian flag

    भारतस्य राष्ट्रध्वजः त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेणसुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति । राष्ट्रध्वजस्य परिकल्पना पिङ्गलि वेङ्कय्य-नामकेन देशभक्तेन कृता आसीत् ।भारतस्वतन्त्रतादिनात् पञ्चविंशतिदिनेभ्यः पूर्वम् अर्थात् १९४७ तमस्य वर्षस्य ‘जुलाई’-मासस्य द्वाविंशतितमे (२२/७/१९४७) दिनाङ्के भारतीयसंविधानसभा एनं ध्वजं राष्ट्रध्वजत्वेन स्व्यकरोत् ।
    राष्ट्रध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः सन्ति । तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च अस्ति । ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे नीलवर्णीयम् अशोकचक्रं विद्यते । तस्य चक्रस्य चतुर्विंशतिः अराः सन्ति । तस्य चक्रस्य व्यासः श्वेतपट्टिकायाः दीर्घतानुगुणं भवति । महात्मना प्रचारितेन खादि-वस्त्रेण निर्मितः राष्ट्रध्वजः एव सांविधानिकरीत्या मान्यः । कोऽपिरेशम-वस्त्रेण निर्मितस्य राष्ट्रध्वजस्य यदि उपयोगं कर्तुम् इच्छति, तर्हि कर्तुं शक्नोति ।

    Like

  11. essay on vidya
    भारतीयसङ्कल्पानुसारं विद्याविनयसम्पत्तिः विनयाधानम् इत्यादिप्रयोगः एव साधु । यतः विद्या ददाति विनयम् इति खलु प्रसिध्दम् । प्रामाणिकग्रन्थेषु विद्याभ्यासः इति पदप्रयोगः अपि न दृश्यते विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि इत्येवं भगवद्गीतायां प्रयोगः अनेन प्रयोगेण अस्य लक्ष्यमपि अवगच्छति । विनयनमेव विद्यया प्राप्तव्यम् । अपरया भाषया वदामः चेत् स्वभावसंस्करणमेव शिक्षणम् इति भावः । श्रीमद्विवेकानन्दस्वामिपादादयः स्वभावसंस्करणमेव शिक्षणमिति स्पष्टीकुर्वन्ति च । अत एव कथयामः विद्याविहीनः पशुः इति ॥
    विनयः गुणसंस्कारः चेत् तदर्थ सर्वसमर्पणम् एव मार्गः । गुरुसमर्पणं, गुरुशुश्रूषा, योगाभ्यासः, अध्यात्मशास्त्रपठनम्, ब्रह्मचर्यम्, श्रवण-मनन निदिध्यासनादयः च इच्छाशक्तेः ज्ञानशक्तेः क्रियाशक्तेः च वर्ध्दनम् कारयन्ति । तत् पुरुषार्थसाधनाय समर्थः मार्गः भवति च ।

    Like

  12. essay on cow (गौः)
    भारतीयानां श्रद्धाबिन्दुषु गौ: एकं महत्त्वपूर्णं स्थानम् अलङ्करोति । भारतीया: गा: मातृत्वेन पश्यन्ति, पालयन्ति च । न केवलं दुग्धदातृत्वेन गवां मातृत्वम् । बहुविधदिव्यगुणानां निलय: भवति गौ: । गवि गव्ये च दिव्यत्वम् अस्ति । तादृशगाव: दुग्धदानयन्त्राणि नैव । ता: राष्ट्रसौभाग्यदायिन्य: । परोपकारगुणेन गोतुल्यजन्तु: नान्य: अस्ति भूतले ।

    Like

  13. essay on river
    नदी इति नैसर्गिको जलमार्गः भवति, प्रायेणैतत् जलं मृदुजलं भवति। जलमेतत् महासागरं प्रति, कासारं प्रति, समुद्रं प्रति अथवा अन्यां काञ्चित् नदीं प्रति प्रवहद्भवति। केषुचिच्च प्रकरणेषु, नदी तु धरातलस्य अन्तरे गच्छति, अथवा अन्यं किञ्चित् जलाशयं अप्राप्यैव शुष्यति। नदी इत्यस्य भौगोलिकपदस्य प्रयोगार्थं आधिकारिकपरिभाषा न विद्यते। यद्यपि केषुचित् देशेषु समुदायेषु वा धारायाः आकारमनुसृत्य तेषां परिभाषाः भवन्ति। नद्यस्तु जलचक्रस्य भागभूताः। नद्याः जलं तु अपवाहक्षेत्रवर्तिना अवक्षेपणेन (प्रायेण वर्षा इत्याख्यम्) सङ्गृहीतं भवति।एतस्य संग्रहणं तु धरातलीयप्रवाहेन, भूजलारोपणेन, जलोत्स्रुतेन, नैसर्गिकहिमाद् हिमपुटेभ्यो वा भण्डारितजलस्य मोचनेन भवति (यथा हिमानीभ्यः)। नदीशास्त्रं तु आङ्ग्लभाषायां पोटॅमोलॉजी इत्युच्यते सर्वसामान्यानां धरामध्यवर्तिजलानाम् अध्ययनं तु आङ्ग्लभाषायां लिम्नोलॉजी इत्युच्यते।

    Like

  14. essay on independence day….
    भारतस्वतन्त्रतादिनम् ‘अगस्त’-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य ‘अगस्त’-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य ‘अगस्त’-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्य शासनं भारतीयेभ्यः यच्छन्तः भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आचर्यते ।

    स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे (लालकिला, red fort) भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभते । ततः प्रधानमन्त्रिद्वाराध्वजारोहणं भवति । अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणःध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति ।

    स्वातन्त्र्यदिने प्रातः सप्तवादने ध्वजारोहणस्य कार्यकालः । ततः भारतगणराज्यस्य राष्ट्रपतिः देशं सम्बोध्य भाषणं करोति । राष्ट्रपतेः भाषणानन्तरंभारतगणराज्यस्य प्रधानमन्त्री देशं सम्बोधयति । तस्मिन् दिने भारतीयत्रिवर्णध्वजः सर्वत्र विराजते ।

    Like

  15. essay on kalidas
    साहित्यलोके असंख्याः कवयः वर्तन्ते इति जानीमः । किन्तु तेषु अत्यल्पानामेव कविताः अहं पठितवान् । तथापि मनसि प्रविष्टानां कवीनां मध्ये कालिदासमहाकविः मम प्रियतमः । तस्मै आसन्दः किञ्चिदुन्नतस्थाने एव मया कल्पितः अस्ति । कारणं किमिति स्पष्टतया अहमपि न जानामि । संस्कृतपठनं यदा आरब्धवान् तथा आरभ्य कालिदासनाम शुणोमि स्म । किन्तु तदा तावत् श्रध्दा नासीत् । एकदा गुरुनाथः वर्गे एकं श्लोकं पाठितवान् यत् –

    जम्बूफलानि पक्वानि
    पतन्ति विमले जले ।
    कपिकम्पितशाखाभ्यः
    गुळुगुग्गुळु गुग्गुळु ॥ इति ॥

    एतस्य अन्तिमं पादं मह्यं बहु अरोचत । अहं तत् प्रत्यक्षमुक्तवान् च । तदा अध्यापकः कालिदासकथां आरम्भतः अवसानपर्यन्तं बहुदिनैः उक्त्वा समापितवान् । तदानीम अहं ज्ञातवान् यत् ट्ण्डंटडण्डं टडडण्डडण्डम् इत्यादयः बहवः श्लोकाः सन्तीति । कालिदासविषये मम जिज्ञासां दृष्ट्वा गुरुः द्वित्रपुस्तकानि मह्यं दत्तवान् । तदहं शीघ्रमेव पठित्वा प्रत्यर्पितवान् च । तदानीं गुरुः उक्तवान् यत् अन्यः कालिदासमधिकृत्य किं वदति इत्यपेक्षया स्वयं कालिदासं पठति चेदेव उक्तमम् इति । ततः आरभ्य गुरोः साहाय्येन कालिदासकृतीः पठितुम् आरब्धवान् ॥
    भिन्नभिन्नपुस्तकपठनतः अहं ज्ञातवान् यत् कालिदासस्य कालं, जन्मस्थानं किमधिकं कृतिः च अधिकृत्य पण्डितानां समानाभिप्रायः नास्तीति । तथापि कालिदासः उज्जयिन्यां षष्टशतके जातः इति सामान्याङ्गीकारः अस्ति च । एतत् सर्वं पठित्वा मम एवमभासत कालिदासः जनिं न प्राप्तवान् इति इतिहासकाराः वदन्ति चेदपि तस्य अस्तित्वं न नश्यति यावत् एकः श्लोकः जीवति । अत एव कालिदासस्य देशकालादिविषये चर्चाकरणसमयेन द्वित्रान् वा श्लोकान् पठति चेत् वरम् । तदानीं विक्रमादित्यसदसि नवरत्नेष्वन्यतमः कालिदासः भोजराजेन सह सल्लापं कुर्वन् प्रत्यक्षीभवति ॥

    Like

  16. essay on mother
    यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते | माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता | संस्कृतभाषायां जननि, जन्यत्रि, अम्बा, सवित्री, अम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ सब्दस्य कृते पर्यायशब्दरूपेण उपयुज्यते |
    शिशो: पालन विषये पित्रे तथा इतर बन्दुजनेभ्य: अपि दायित्वं अस्ति एव परन्तु अम्बायै ज्येष्ठांशम् विद्यते | माता इति पदम् स्पष्टीकर्तुं सुलभकार्यं नास्ति | न केवलं मानवा: इतरेषु पशुषु अपि मातृत्वं सुस्पष्टं विद्यते | यथा शिशो: जीवनं अम्बया विना कटिनम् भवति तथा एव मृगाणां पक्षिणां अपि अम्बया विना जीवनं बहु कष्टं भवति |
    भारत देशे स्वमातरं अपेक्षया तरव:, नद्य:, जन्मभूमि:, भाषा: इत्यादय: अपि मातृवत् पूजनीया: इति मन्यते | प्रथमतया श्रीमद्रामायण महाकाव्ये “जननि जन्मभूमिश्च स्वर्गादपि गरीयसि” इति श्लोक: वर्तते | तादृशा: श्लोका: विविधेषु प्राचीनेषु ग्रन्थेषु अपि वर्तन्ते |

    Like

  17. essay on environment
    अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते।

    Like

  18. essay on earth
    पृथ्वी सूर्यमण्डले तृतीयः ग्रहः अस्ति । ग्रहाणां गुरुत्वानुगुणं पञ्चमस्थाने भवति । एषा कदाचित् लोक:, वैज्ञानिकभाषायां Earth वा अपि भाष्यते। पृथिवी ४।५४ कोटिवर्षेभ्य: प्राक् जनिमलभत। जैवविविधता एतस्या: ख्याति:। पृथिव्या: पर्यावरणं कालश: तस्या: वातावरणं विध: कृतं तेन च जीवसृष्टि: निर्मिता। पृथिव्या: उपरि एका ओझोन (Ozone layer) नाम्ना पट्टिका अस्ति। एतस्या: पृथिव्या: रक्षण: भवति।
    जलेन विना जीवितं व्यर्थम् इति उक्तं सत्य:। जलस्य लाभ: पृथिव्याम् अतीव। अत: पृथिव्यां जीवन: सुसह्य: अस्ति।

    Like

  19. essay on diwali
    दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।

    Like

  20. essay on republic day
    भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति ।

    गणतन्त्रदिनस्य अलङ्कारः
    प्रजाराज्योत्सवं प्रजाराज्योत्सवः गणराज्योत्सवः इत्यपि कथयन्ति । यतः गणानां प्रजानां एव अत्र प्रामुख्यता अस्ति । प्रजाराज्यमित्यस्य प्रजाभिः प्रजाभ्यः प्रजाः एव प्रशासनं कुर्वन्ति इत्यर्थः भवति । भारतस्य प्रजासत्तात्मकजात्यतीतगणराज्यम् इति च नाम अस्ति । जनवरी मासस्य २६ तमे दिनाङ्के एव लाहोर-अधिवेशने पूर्णस्वातन्त्र्यलाभाय निर्धारः कृतः आसीत् । तस्य स्मरणार्थं जनवरीमासस्य २६ दिनाङ्कः एव स्वीकृतः अस्ति । प्रतिवर्षं वैभवेन प्रजाराज्योत्सवः आचर्यते । विदेशीयाः अतिथिरुपेण आगच्छन्ति । मुख्यकार्यक्रमः राजधान्याः परेड्स्थाने राष्ट्रपतिभवनस्य पुरतः प्रचलति । देशे सर्वत्र कार्यालयेषु विद्यालयेषु सङ्घसंस्थासु च कार्यक्रमं कुर्वन्ति । ध्वजारोहणं राष्ट्रगीतं विविधस्पर्धाः मनोरञ्जनकार्यक्रमाः च सर्वत्र प्रचलन्ति । राष्ट्रियपर्वरुपेण प्रजाराज्योत्सवम् आचरन्ति । भारतदेशः सुखीराज्यं भवतु इति सदाशया सर्वजनहिताय सर्वजनसुखाय संविधाननिर्माणकार्यस्य आरम्भः अभवत् ।

    Like

  21. Mam vidyalaya nam kendriya vidyalaya asthi .asmakm vidyalaya vahat bhavnah asti.asmakm vidyalaya tri manjila asti.atr aak pustkalaya api asti .asmakm vidyalaya adhyapaka laganshil sadachari ch santi this will may help u mark as the best……

    Like

  22. प्रवेशपरीक्षा
    प्रतिवर्षं प्रवेशार्थं परीक्षा प्रचाल्यते । परिशिष्टजातीयस्य परिशिष्टवर्गस्य बालानां कृते आरक्षणं भवति । स्थानेषु १/३ भागः बालिकानां कृते आरक्षितः भवति । विकलाङ्गानां कृते अपि ३ प्रतिशतम् आरक्षितः भवति । षष्टकक्ष्यातः आरभ्य द्वादशकक्ष्यापर्यन्तम् अत्र केन्द्रीयमाध्यमिकशिक्षामण्डल्याः पाठ्यक्रमः अनुस्रियते । बालकाः बालिकाः च एकत्र पठन्ति । नवमीतः आरभ्य मासे २०० रूप्यकाणि शुल्करूपेण स्वीक्रियते । परन्तु परिशिष्टजातीयानां, परिशिष्टवर्गस्य, बालिकानां, विकलाङ्गीयच्छात्राणां च शुल्कं न भवति । दारिद्र्यरेखातः अधः ये भवन्ति ते अपि शुल्कदानेन विमुक्ताः भवन्ति । नवोदयविद्यालयाः ग्रामीणभागेषु एव स्थापिताः सन्ति । राज्यसर्वकाराः एतदर्थं विना शुल्कं भूमिं दद्युः । तात्कालिकरूपेण भवनं दद्युः यावत् पर्यन्तं नूतनभवनस्य निर्माणं न भवेत् ।

    Like

  23. please send me short essays on
    1.vidya dhanam sarvpradhanam
    2.rituragi varsa ritu
    3.chatranaam krite anushashanam aawashyakam
    4.gramyajeevanam
    5.paropkaarah aev manushyanam dharmah asti
    please please please please please please send me short essays on any of these topics and if possible then send on every topic….
    please please ………………

    Like

  24. I want essay in Sanskrit on the topic – आधुनिक शिक्षा बाल्यावस्थां समाप्तं करोति

    Like

    1. I want essay in Sanskrit on the topic – आधुनिक शिक्षा बाल्यावस्थां समाप्तं करोति
      plz its urgent

      Like

  25. Pl send me essay in sanskrit on any topic related to the following to take help for cbse sanskrit week
    promotion of language, OR Indian art and culture OR Interlinking of sanskrit with other Modern Indian Language.

    Like

  26. I want an essay of about 750 words on topics -influence of Sanskrit on the folk,literature, and languages of India
    Please help me ….I need it urgently

    Like

  27. please help me to write an essay about seven sisters in india in sanskrit language. Why they are known as seven sisters ? Details about each state etc….

    Like

  28. i please help me to write 5 sentence by using following words :- vanshya , Vriksha , Nadi , Vanraa , akashe, khagha , mrigya , pibiti , nadyaa , tate , utpatanty , jalam

    Like

  29. please send a essay on KHADI FABRIC pleasee help me pls send it is very important can anyone tell only 5 sentences

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.