शिरःप्रावरणम् (Head Covering)
ह्यः अहं ज्वलितां तरणाय तरणकुण्डम् अनयम्। यदा सा तरति स्म तदा कुण्डस्य पार्श्वे अहम् उपविश्य मम कार्यं करोमि स्म। एकः सज्जनः तदा तरणम् आरभत तेन शिरःप्रावरणम् न परिधारितम्। तरणकुण्डस्य नियमः अस्ति सर्वैः शिरःप्रावरणं धारणीयम् इति। यदा एकेन कार्यकरेण सः दृष्टः तदा सः कार्यकरः तरणकुण्डस्य एकं शिरःप्रावरणम् आदाय पार्श्वे गत्वा तैराकस्य (swimmer?) प्रतीक्षाम् अकरवम्। यदा सः तैराकः वर्तनाय पार्श्वे आगच्छत् तदा कार्यकरः नत्वा तं आस्थाय विनम्रभावेन अवदत् – तरणकुण्डे शिरःप्रावरणं परिधातव्यं कृपया अद्य अस्माकं शिरःप्रावरणं परिदधातु परं स्वशिरःप्रावरणम् आनयतु।
तौ कथं विनम्रभावेन वार्तालापम् अकुरुताम् इति दृष्ट्वा अहं चकितः अभवम्।
मया सर्वे शब्दाः समीचीनं न उपयुक्ताः। पण्डिताः परिष्कुर्युः इति आशासे।
२०१२-०६-१५ शुक्रवासरः (2012-06-15 Friday)
hnbhat 7:28 pm on June 17, 2012 Permalink |
हिन्दीशब्दकोश खोज पृष्ठ –
तैराक २ , की परिभाषा तैराक २ , का अर्थ तैराक २ – तैराक २ संज्ञा पुं० तैरने में कुशल व्यक्ति ।
तैरना Hindi verb?
Himanshu Pota 6:05 pm on June 18, 2012 Permalink |
आं तैरना इति हिन्दीभाषायां प्रयुक्तः धातुः अस्ति। अपि तैराकः इति शब्दः संस्कृतभाषायाम् अस्ति?
hnbhat 6:33 pm on June 18, 2012 Permalink
कथं संस्कृतभाषायां हिन्दीक्रियापदनिष्पन्नः शब्दः स्यात्?
Himanshu Pota 1:56 pm on June 19, 2012 Permalink |
अहं swimmer इति शब्दस्य सम्यक् संस्कृत-अनुवादं न जानामि तस्मात् अयं शब्दः उपयोगितः।
nike modelleri 2012 7:59 pm on June 22, 2012 Permalink |
nike modelleri hakkında bilgi alabilirsiniz özellikle sitemiz 2012 yılında çıkan sezon ayakkabıları satan firmalar hakkında bilgi sunmaktadır!