कच्चित् (I hope)

कच्चित् कामप्रवेदने इत्यमरः (अमरकोश: ३।४।१४)

आप्टेवर्येण एवमुक्तम् – कच्चित् शब्देन वक्तुः प्रत्याशा सूचिता । कच्चिद्शब्देन युक्तं वाक्यं प्रश्नवदस्ति। एतत् ‘आम्’ अथवा ‘न हि’ इति प्रत्युत्तरं अपेक्षते।

शिवानि वः तीर्थजलानि कच्चित् (रघुवंशे ५।८) – Are your holy waters undisturbed? I hope they are.
कच्चिदेतत् श्रुतं पार्थ त्वयैकाग्रेण चेतसा (गीता १८।७२) – I hope you have heard this with an attentive mind.
कच्चिद्भर्तुः स्मरसि रसिके (मेघदूते उत्तरमेघे २२) – I hope you remember my husband, dear.

२०१२-०४-०१ रविवासरः (2012-04-01 Sunday)