पुनः उपवेशनम् (Again a Meeting)

संस्कृतवार्ताः इति लिखति मनमोहनसिंहः श्वः उपवेशनम् आकारयिष्यति इति। पुनः उपवेशनम्। मनमोहनवर्यः उपवेशनस्य नायकः अस्ति। मम एकः सहकर्मी अस्ति सः विंशतिवर्षपूर्वं मनमोहनवर्येण सह एकस्मिन् उपवेशने आसीत्। मनमोहनवर्यः तदा दशहोरापर्यन्तम् एकस्मिन् एव स्थाने उपाविशत्। सः न शौचालयम् अगच्छत् न कुत्रापि अन्यत्र एकस्मिन् एव स्थाने उपाविशत्। सः खलु उपवेशनस्य नायकः अस्ति।

२०१२-०३-२२ गुरुवासरः (2012-03-22 Thursday)