स्थितिः समीक्षिता (Analysed the situation)

संस्कृतवार्ताः इति लिखति अपहृतानां पर्यटकानां स्थितिः मुख्यमन्त्रिमहोदयेन उपवेशने समीक्षिता। उपवेशने स्थितिः समीक्षिता इति प्रशासनस्य प्रियवाक्यमस्ति। तस्य परं ते किं कुर्वन्ति इति कोऽपि न जानाति। अहं मन्ये ते स्थितिं समीक्षां कर्तुम् एव व्यस्ताः सन्ति तस्मात् किमपि अन्यकार्यं कर्तुं न शक्नुवन्ति। एकं समीक्षणं परम् अन्यं तथा समीक्षाणाम् अनवरतः प्रवाहः अस्ति। कार्याय अवकाशः नास्ति।

२०१२-०३-२१ बुधवासरः (2012-03-21 Wednesday)