नववर्षस्य शुभकामना (Good wishes for the New Year)

ये अपि जनाः इदं वृत्तपत्रं पठन्ति मम उत्साहवर्धनं च कुर्वन्ति ते सर्वान् जनान् अहं नूतनवर्षस्य शुभकामना पाठयामि। षट्वर्षपूर्वं यदा मया इदं वृत्तपत्रम् आरब्धं तदा अस्य सदृशानि वृत्तपत्राणि नासन्। इदानीं तु नैकाः पण्डिताः वृत्तपत्रं लिखन्ति तत् दृष्ट्वा अहम् अतीवप्रसन्नः भवामि। अहं न कोऽपि पण्डितः अहम् अज्ञः एव अस्मि। तस्मात् पण्डितानां लेखनं पठित्वा प्रसन्नः भवामि। सर्वान् पण्डितान् अपि शुभकामना पाठयामि। अहम् आशासे नूतनवर्षे अनेकानां नूतनानां वृत्तपत्राणां समाचारपत्राणां च प्रकाशनं भविष्यति।

२०१२-०१-०१  रविवासरः (2012-01-01 Sunday)

Advertisements