दूरदर्शनं नापश्यम् (Did not watch TV.)

सोमवासरस्य दूरदर्शनकार्यक्रमाः मह्यं भृशं रोचन्ते किन्तु अद्य मया मनोबलं दृढीकृतं दूरदर्शनं न दृष्टम् च। अहं प्रसन्नः अस्मि।

२०१०-०५-२४ सोमवासरः (2010-05-24 Monday)

सलीमवर्यः मोहम्मदरफीवर्यस्य स्वरः (Salim – Voice of Mohammad Rafi)

अद्य सायंकाले अहं मीतया सह सलीमवर्यस्य सङ्गीतकार्यक्रमं श्रोतुम् अगच्छम्। सलीमवर्यः भारतीयमूलकः न्यूज़ीलेण्डनिवासी अस्ति। सः मोहम्मदरफीवर्यस्य स्वरः एव अस्ति। तस्य व्यक्तित्वम् अतीवसरलम् अस्ति। सः धैर्यतया सर्वाणाम् इष्टगीतानि क्रमेण अगायत्। सः सायंकाले सार्धसप्तवादनात् रात्रौ सार्ध-एकादशवादन् पर्यन्तम् अगायत्। तस्य गायनम् आवाभ्याम् रोचते।

२०१०-०५-२३ रविवासरः (2010-05-23 Sunday)

विधा – लृट्लकारः (To do – Future Tense)

विधा इति जुहोत्यादिगणीयः धातुः सम्प्रति वार्ताः श्र्यूयन्ताम् इति आकाशवाणीप्रवाचकानां प्रियः धातुः अस्ति।
विधास्यति विधास्यतः विधास्यन्ति
विधास्यसि विधास्यथः विधास्यथ
विधास्यामि विधास्यावः विधास्यामः
अहं श्वः पाठं विधास्यामि। विदेशमन्त्री श्वः चीनदेशस्य यात्रां विधास्यति।

२०१०-०५-२२ शनिवासरः (2010-05-22 Saturday)

विधा -लट्लकारः (To do – Present Tense)

विधा इति जुहोत्यादिगणीयः धातुः सम्प्रति वार्ताः श्रूयन्ताम् इति आकाशवाणीप्रवाचकानां प्रियः धातुः अस्ति।
विदधाति विधत्तः विदधति
विदधासि विधत्थः विधत्थ
विदधामि विदध्वः विदध्मः
प्रधानमन्त्री अद्य राजस्थानराज्यस्य यात्रां विदधाति। कर्मचारिणः अद्य कार्यं विदधति।

२०१०-०५-२१ शुक्रवासरः (2010-05-21 Friday)

प्रस्तितः-प्रस्तीर्णः (crowded – spread out)

आपणे जनसमुदायः एकतः प्रस्तितः आसीत् किन्तु अन्यतः प्रस्तीर्णः आसीत्। कथम् एतत्। तत्र ते किम् विक्रीणन्ति यस्मात् जनसमुदायः प्रस्तितः। अपि वयं तत्र गच्छेम यत्र जनाः प्रस्तिताः सन्ति अथवा यत्र ते प्रस्तीर्णाः सन्ति।

२०१०-०५-१९ बुधवासरः (2010-05-19 Wednesday)

हिन्दीभाषया वृथापत्रम् (Junk Mail in Hindi)

वृथापत्राणां लेखकानां प्रेषकाणां च हास्यरसः प्रशंसनीयः एव अस्ति। गतसप्ताहे मया हिन्दीभाषया एकवृथापत्रं प्राप्तम्। तस्मिन् पत्रे अनुवादः हास्यास्पदः एव आसीत्। लेखकस्य नाम Peter Prosper इति आसीत् ते तस्य नाम्नः हिन्दीभाषानुवादं पीटर वैभव इति अकुर्वन्।

२०१०-०५-१८ मङ्गलवासरः (2010-05-18 Tuesday)