अद्य सायंकाले अहम् आवयोः कन्यां ज्वलितां दन्तचिकित्सालयम् अनयम्। दन्तपरीक्षा परं ज्ञातं ज्वलितायाः दन्तेषु कापि बाधा नासीत्। सर्वं सुष्ठु आसीत्। ज्वलिता पञ्चादशनिमिषायावत् दन्तचिकित्सकायाः आसन्दिकायाम् आसीत्। यदा आवां देयं (bill) अपश्याव तदा अहं स्वयं चिकित्सालयं गन्तुम् उद्युक्तः अभवम्। पञ्चादशनिमिषायाः चिकित्सायाः यस्यां चिकित्सिकाः किमपि ना अकरोत् किन्तु देयम् आसीत् पञ्चत्रिंशतधिकं द्विशतं ($235) डोलरमितम्।
वैद्यराज नमस्तुभ्यं यमराजसहोदर।
यमस्तु हरति प्राणान् त्वं तु प्राणान् धनानि च॥
२००९-११-१७ मङ्गलवासरः (2009-11-17 Tuesday)