अहं दीर्घकालात् कृदन्तरुपमाला इति पुस्तकम् अधिगच्छामि। अहम् इतः ततः पृच्छमि किन्तु कुत्रापि न विन्दामि। ह्यः मया चिन्तितम् अपि औस्ट्रलिया-राष्ट्रीय-विश्वविद्यालये इदं पुस्तकं अस्ति इति पृष्टव्यम्। अद्य रिचर्डवर्यः उत्तरति अस्मिन् विश्वविद्यालयस्य पुस्तकालये अस्य पुस्तकस्य पूर्णपञ्चभागाः सन्ति इति। अद्य मया ते भागाः गृहे नीताः। आवयोः कन्या शुचिता विश्वविद्यालये छात्राः अस्ति। सा मत्कृते पुस्तकं पुस्तकालयात् आददात्।
कृदन्तरुपमाला
मद्रपुरी-संस्कृतविद्यासमितेः कलाशालायं प्रधानाध्यापकैः
पण्डितवर्यैः श्रीमद्भिः श. रमसुब्रह्मण्यशास्त्रिभिः
सन्दृब्धा
श्रीमतां डा. वे. राघवार्याणाम्
श्रीमतां डा. चे. प. रामस्वाम्यार्याणां च
आमुखाभ्यां सहिता
मद्रपुरीसंस्कृतविद्यासमितिसचिवैः
श्री. ति. वे. विश्वनाथार्यैः
१४ पूर्वमाडवीथी माईलापुरं मद्रास् ४
प्रकाशिता
१९६५
२००९-११-१६ सोमवासरः (2009-11-16 Monday)
ऑस्ट्रेलिया-देशस्थिते विश्वविद्यालयस्य पुस्तकालये “कृदन्त-रूप-माला”याः सम्पूर्णं पुस्तक-पञ्चकं लब्धं, एतत् सानन्दाश्चर्यकारकं ननु ।
LikeLike